This page has been fully proofread once and needs a second look.

३५२
 
काव्यमाला ।
 
मनो भृशं भ्राम्यति बालिशं भवे जहाति भक्तितिं च दिवानिशं भवे ।

अतः परं नाम किमस्य शं भवेन्निवेदयेत्स्वं यदि कर्म शंभवे ॥ १२ ॥

 
बालिशं जडं मनश्चित्तम् । मादृशामिति शेषः । भवे संसारे इन्द्रजालगन्धर्वनगरतुल्ये

भृशमत्यर्थेथं भ्राम्यति । तदेव बालिशं मनो भवे श्रीशंभौ च दिवानिशं भक्तितिं जहाति ।

युक्तं चैतत् । अस्य जडस्य मनसः । नाम निश्चये । अतः परं शं निःश्रेयसं किं भवेत् । न

किंचिदित्यर्थः । अतः कस्मादित्याह - निवेदयेदित्यादि । यदि तन्मनः स्वं कर्म शुभाशुभं

शंभवे परमेश्वराय निवेदयेत्प्रतिपादयेत् । श्रीशिवार्पणं कुर्यादित्यर्थः ॥
 

 
समुद्रजन्मानमुपादधत्करे सितद्युतिं वक्त्रनिवेशनोचितम् ।
 

रतः सदास्कन्दकदर्थनाहतौ हरो हरिर्वा दुरितं [^१]धुनोतु वः ॥ १३ ॥
 

 
हरः श्रीशंभुर्हरिर्वा दुरितं पातकं धुनोतु । किं कुर्वन् । समुद्रजन्मानं कालकूटं करे

पाणानुपादधत् । किंभूतम् । असितद्युतिम् । तथा वक्त्रनिवेशनोचितं मुखे स्थापनोचि

तम् । किंभूतः । सदा नित्यं स्कन्दस्य कुमारस्य कदर्थना पीडा तस्य हतौ निवारणे

रतः । हरिश्च किंभूतः । करे पाणौ सितद्युतिं शुभ्रं वक्त्र निवेशनोचितं मुखस्थापनयोग्यं

समुद्रजन्मानं शङ्खं पाञ्चजन्यमुपादधद्विबिभ्रत् । तथा सतां साधूनां य आस्कन्दो माया-

वरणं तेन या कदर्थना तस्या हतौ रतः ॥
 

 
जिगीषवः क्लेशपरम्पराभवं वनेषु भिक्षाघृधृतकर्परा भवम् ।
 

असोढवन्तः कुनृपात्पराभवं भजन्ति सन्तः स्तुतितत्परा भवम् ॥१४॥
 

 
क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां या परम्परा तस्या भव उत्पत्तिर्यस्य स

तादृशस्तं भवं संसारं जिगीषवो जेतुमिच्छवो वनेषु काननेषु भिक्षार्थं धृतः कर्परो घट-

शकलो यैस्ते । तथा कुनृपात्प्रजापीडादायिनो नृपात्परामवमसोढवन्तः सन्तः साधवः

स्तुतौ तत्परालीना भवं श्रीशंभुं भजन्ति ॥
 

 
कदा दधानो घनशान्तिशोभिनीं शुभाम्बरालंकरणोचितां तनुम् ।

भजाम्यहं दृष्टिनिवेशनौचितीं शशीव तिग्मांशुरिवाच्युतस्य ते ॥१५॥
 

 
हे विभो, न च्युतः स्वातन्त्र्यादच्युतस्तस्य ते विभोरहं दृष्टिनिवेशनौचितीं भवत्क-

टाक्षक्षेपौचित्यं कदा भजामि । अहं किंभूतः । घना निबिडा या शान्तिर्जितेन्द्रियता

तया शोभते तादृशीम् । तथा अम्बराणि वस्त्राणि अलंकारा भूषणानि तेषु उचिता तां

तनुं दधानः । अहं क इव । शशी चन्द्र इव । तीक्ष्णांशुः सूर्य इव । तथाहि शशी सू-

र्यश्चाच्युतस्य विष्णोर्दृष्टिनिवेशनौचितीं दृष्टौ निवेशनं तस्यौचित्यं भजते । शशी सूर्यश्च

किं कुर्वन् । तनुं वहन् । किंभूताम् । घनशान्तिशोभिनीं घनानां मेधानां या शान्तिस्तया

शोभते तादृशीम् । तथा अम्बरे आकाशेऽलंकरणं तत्रोचिता तादृशीम् । शब्दश्लेषः ॥
 

 
[^
]. 'दुनोतु' ख.
 
Digitized by Google