This page has not been fully proofread.

३५२
 
काव्यमाला ।
 
मनो भृशं भ्राम्यति बालिशं भवे जहाति भक्ति च दिवानिशं भवे ।
अतः परं नाम किमस्य शं भवेन्निवेदयेत्स्वं यदि कर्म शंभवे ॥ १२ ॥
बालिशं जडं मनश्चित्तम् । मादृशामिति शेषः । भवे संसारे इन्द्रजालगन्धर्वनगरतुल्ये
भृशमत्यर्थे भ्राम्यति । तदेव बालिशं मनो भवे श्रीशंभौ च दिवानिशं भक्ति जहाति ।
युक्तं चैतत् । अस्य जडस्य मनसः । नाम निश्चये । अतः परं शं निःश्रेयसं किं भवेत् । न
किंचिदित्यर्थः । अतः कस्मादित्याह - निवेदयेदित्यादि । यदि तन्मनः स्वं कर्म शुभाशुभं
शंभवे परमेश्वराय निवेदयेत्प्रतिपादयेत् । श्रीशिवार्पणं कुर्यादित्यर्थः ॥
 
समुद्रजन्मानमुपादधत्करे सितद्युतिं वऋनिवेशनोचितम् ।
 
रतः सदास्कन्दकदर्थनाहतौ हरो हरिर्वा दुरितं धुनोतु वः ॥ १३ ॥
 
हरः श्रीशंभुईरिर्वा दुरितं पातकं धुनोतु । किं कुर्वन् । समुद्रजन्मानं कालकूटं करे
पाणानुपादधत् । किंभूतम् । असितद्युतिम् । तथा वऋनिवेशनोचितं मुखे स्थापनोचि
तम् । किंभूतः । सदा नित्यं स्कन्दस्य कुमारस्य कदर्थना पीडा तस्य हतौ निवारणे
रतः । हरिश्च किंभूतः । करे पाणौ सितयुतिं शुभ्रं वक्र निवेशनोचितं मुखस्थापनयोग्यं
समुद्रजन्मानं शङ्खं पाञ्चजन्यमुपादधद्विभ्रत् । तथा सतां साधूनां य आस्कन्दो माया-
वरणं तेन या कदर्थना तस्या हतौ रतः ॥
 
जिगीषवः क्लेशपरम्पराभवं वनेषु भिक्षाघृतकर्परा भवम् ।
 
असोढवन्तः कुनृपात्पराभवं भजन्ति सन्तः स्तुतितत्परा भवम् ॥१४॥
 
क्लेशानामविद्यास्मितारागद्वेषाभिनिवेशानां या परम्परा तस्या भव उत्पत्तिर्यस्य स
तादृशस्तं भवं संसारं जिगीषवो जेतुमिच्छवो वनेषु काननेषु भिक्षार्थ धृतः कर्परो घट-
शकलो यैस्ते । तथा कुनृपात्प्रजापीडादायिनो नृपात्परामवमसोढवन्तः सन्तः साधवः
स्तुतौ तत्परालीना भवं श्रीशंभुं भजन्ति ॥
 
कदा दधानो घनशान्तिशोभिनीं शुभाम्बरालंकरणोचितां तनुम् ।
भजाम्यहं दृष्टिनिवेशनौचितीं शशीव तिग्मांशुरिवाच्युतस्य ते ॥१५॥
 
हे विभो, न च्युतः स्वातन्त्र्यादच्युतस्तस्य ते विभोरहं दृष्टिनिवेशनौचितीं भवत्क-
टाक्षक्षेपौचित्यं कदा भजामि । अहं किंभूतः । घना निबिडा या शान्तिर्जितेन्द्रियता
तया शोभते तादृशीम् । तथा अम्बराणि वस्त्राणि अलंकारा भूषणानि तेषु उचिता तां
तनुं दधानः । अहं क इव । शशी चन्द्र इव । तीक्ष्णांशुः सूर्य इव । तथाहि शशी सू-
र्यश्चाच्युतस्य विष्णोर्दृष्टिनिवेशनौचितीं दृष्टौ निवेशनं तस्यौचित्यं भजते । शशी सूर्यश्च
किं कुर्वन् । तनुं वहन् । किंभूताम् । घनशान्तिशोभिनीं घनानां मेधानां या शान्तिस्तया
शोभते तादृशीम् । तथा अम्बरे आकाशेऽलंकरणं तत्रोचिता तादृशीम् । शब्दश्लेषः ॥
 
१. 'दुनोतु' ख.
 
Digitized by Google