2023-02-23 21:27:57 by ambuda-bot
This page has not been fully proofread.
२९ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
३५१
हरः श्रीशंभुस्तेन करेण पाणिना वो युष्माकं शं निःश्रेयसं तनोतु । तेन केनेत्याह-
अघद्रुमेत्यादि । यस्मिन्नशरणानामभयंकरे सुधावन्मकोलवत्सिताः श्वेता अणवः सूक्ष्मा:
पावककल्कस्य भस्मनो रेणवो रजांसि सन्ति । पावककल्करेणवः कथंभूताः । अघद्रुम-
ध्वंसमहाकरेणवः अघाः पातकान्येव द्रुमास्तेषां ध्वसस्तत्र महागजाः ॥
धृतिस्त्वदीयेन सुदर्शनेन मे भवत्यभेदस्तु हरे किमुच्यते ।
परस्परं शंकरकृष्णयोरिदं वचः सुखायैकमुखोत्थमस्तु वः ॥ ९ ॥
-
शंकरकृष्णयोः श्रीशिवनारायणयोरेकमुखोत्थं परस्परमन्योन्यमिदं वचो वः सुखा-
यास्तु । इदं किमित्याह - धृतिरित्यादि । हे हरे विष्णो, त्वदीयेन सुदर्शनाख्येन चक्रेण
मे मम धृतिरस्ति तेन । तुः पक्षान्तरे । मया किमुच्यते । यतोऽभेदो भवत्यस्ति । भ
वता सह्रैक्यमित्यर्थः । इति श्रीशिवोक्तिः । तथा हे शंभो, त्वदीयेन भावत्केन सुदर्श-
नेन शोभनदर्शनेन मे मम धृतिरस्ति तेनास्माभिरभेदः किमुच्यते । कस्मिन् । भवति
त्वयि हरे महादेवे ॥
न जन्म यस्याद्रिनिवास दारुणः स ते ज्वलत्यक्षिण शिखी सदारुणः ।
यमं न किं तेन शिरः सदारुणस्त्वदाश्रितं किं असतां स दारुणः ॥१०॥
न
हे अद्रिनिवास । अद्रौ कैलासे निवासो यस्य स तस्य संबोधनम् । हे गिरिश, य.
स्याभेर्दारुणः काष्ठात्सकाशात् जन्म उत्पत्तिर्न भवति स एव शिखी अरुणो रक्तः सदा
ते तवाक्षिण तृतीयनेत्रे ज्वलति । हे विभो, शिरः सदा शिरसि विलीनेन तेन शिखिना
त्वं यमं किं नारुणः नावृणो: । 'रुधिर् आवरणे' धातुः । अदहः इत्यर्थः । स यमो दा-
रुणः क्रूरस्त्वदाश्रितं त्वद्भक्तं किं प्रसताम् ॥
सदानगोपाहितबन्धुरस्थितिं स्तुवे पिनाकेन समेधितश्रियम् ।
महर्द्धिकंसोपशमे कृतादरं हरं हरिं वा तरसा रसादहम् ॥ ११ ॥
अहं हरं श्रीशिवं हरिं विष्णुं वा रसाद्रसेन तरसा स्तुवे । हरं किंभूतम् । सदा नित्यं
नगे कैलासे उपाहिता बन्धुरा स्थितिर्येन स तादृशस्तम् । तथा पिनाकेनाजगवेन ध
नुषा समेधिता वर्धिता श्रीः शोभा यस्य स तादृशस्तम् । तथा महत्यो ऋद्धयोऽणिमाया
अष्टौ यस्य स महद्धिः महर्द्धिरेव महर्द्धिकस्तम् । तथा सोपशमे संयतचित्ते कृत आदरो
येन स तादृशस्तम् । हरिं नारायणं च किंभूतम् । सह दानेन वर्तन्ते सदाना ये गोपा-
स्तेष्वाहिता बन्धुरा निर्भरा स्थितिर्येन स तम् । अत्र अपि नाकेन इति पदच्छेदः ।
नाकेन स्वर्गेणापि समेधिता श्रीलक्ष्मीर्यस्य स तादृशस्तम् । तथा महती ऋद्धिः सं-
पत्तिर्यस्य तादृशो यः कंसः कंसाख्योऽसुरस्तस्योपशमे विनाशे कृतादरम् । शब्द-
श्लेषालंकारः ॥
१. 'सदा' क.
Digitized by Google