This page has been fully proofread once and needs a second look.

३५०
 
काव्यमाला ।
 
माधवो वसन्तो मा मां तथा न सुखाकरोति । किंभूतः । क्लमहत् । तथा धवो नाम

वृक्षो मरौ निर्जलप्रदेशे उपवनेऽपि मा मां तथा न सुखाकरोति । तथा कथमित्याह-

यथेत्यादि । शरीरार्धे निरुद्धो हरिहररूपेण माधवो विष्णुर्येन स तादृश उमाधवः पा

र्वतीप्राणनाथो भगवान्यथा मां सुखाकरोति । किंभूतः । प्रशस्यमानः स्तूयमानः ॥

 
दिनान्तरात्र्यागमयोरिवाथवा सुरस्रवन्तीयमुनौघयोरिव ।
 

उमारमाकामुकयोः समागमः सितासितस्तापमघं च हन्तु वः ॥ ५ ॥

 
दिनान्तरात्रिप्रारम्भयोः समागमः सितासितो यथा अथवा यथा गङ्गायमुनाप्रवाहयोः

समागमः सितासितस्तापमधंघं च हन्ति तथा उमारमाकामुकयोः श्रीशंभुनारायणयोः

समागमः सितासितो वस्तापं त्रिविधमाध्यात्मिकाधिदैविकाधिभौतिकरूपं तथा अघं

पातकं च वो हन्तु ॥
 

 
उमाख्यमासाद्य महानियोऽगतः प्रियं निधिं सौख्यमहानि यो गतः ।

करोतु युष्माकमहानि योगतः शुभान्यसाविद्धमहा नियोगतः ॥ ६ ॥

 
इद्धं दीप्तं महस्तेजो यस्य स इद्धमहाः असौ श्रीशंभुर्नियोगत आज्ञया हेतोर्योगतः

समाधेश् युष्माकं शुभान्यहानि करोतु । असौ क इत्याह – उमाख्यमित्यादि । महती

नीर्नीतिर्यस्य स महानीस्तादृशात् महानियः अगतः पर्वताद्धिमालयात् उमाख्यं पार्व-

तीरूपं प्रियं हितं निधिं प्राप्य सौख्यं गतः प्राप्तः । सौख्यं किंभूतम् । अहानि अविद्य

माना हानिर्यस्य तत् ॥
 

 
द्विजाधिपाधिष्ठितशेखरं महाभुजं गविन्यस्तभरं समुद्रहन् ।
 
वहन् ।
वपुः सदाभङ्गदयासमाश्रितं तनोतु वः संपदमच्युतः शिवः ॥ ७ ॥
 

 
अच्युतो न च्युतः स्खलितः स्वातन्त्र्यशक्तेः श्रीशिवः संपदं तनोतु । किंभृतः ।
भूतः ।
एवंविधं वपुः समुद्हन् धारयन् । किंभूतम् । द्विजाधिपेन चन्द्रमसा अधिष्ठितं शेखरं

यस्य तत् । तथा महाभुजं महान्तो भुजा अष्टादश यस्य तत् । तथा गवि वृषभे

न्यस्तो भरो येन तत् तादृशम् । तथा सदा सर्वदा अभङ्गा निर्विनाशा या दया कृपा

तया समाश्रितम् । तथा अच्युतो न च्यवते परमपदादच्युतो विष्णुः शिवः शिवदो

वो युष्माकं संपदं तनोतु । किंभूतः । वपुः समुद्वहन् । किंभूतं वपुः । द्विजाधिपस्य ग-

रुडस्याधिष्ठितं शेखरं येन तत् । तथा महाभुजंगे शेषे नागाधीशे विन्यस्तो भरो येन

तत् । पुनः किंभूतम् । सदाभं सती शोभना आभा यस्य तत् । तथा गदया आयुधविशे

षेण समाश्रितम् ॥
 

 
अघद्रुमध्वंसमहाकरेणवः सुधासिताः पावककल्करेणवः ।

वसन्ति यस्मिन्नभयंकरेऽणव[^१]स्तनोतु शं तेन हरः करेण वः ॥ ८ ॥
 

 
[^
]. 'करोतु' क.
 
Digitized by Google