This page has not been fully proofread.

२९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
एकोनत्रिंशं स्तोत्रम् ।
 
अथातो ग्रन्थकृदेकान्तरयमकाख्येन चित्रकाव्येनैकोनत्रिंशं स्तोत्रमारममाण आह -
उदारवर्णैरथ संगतैरहं मुदाभिधावद्भिरुपोढलक्षणैः ।
पदैरमन्दध्वनिभिर्महेश्वरं प्रभुं प्रपद्ये तुरगोत्तमैरिव ॥ १ ॥
 
अथानन्तरमहं महेश्वरं प्रभुं प्रपद्ये । मुदा प्रीत्या । कैः । पदैः सुप्तिङ्कुन्तै: । नुतिरूपैर्वै-
चोभिरित्यर्थः । पदैः किंभूतैः । उदाराः प्रक्रान्तप्रन्धवर्णनीयरसानुकूला वर्णा अक्षराणि
येषु तानि तादृशैः । तथा संगतैः परस्परसंबद्धार्थैः । तथा अभिधावद्भिः अभिधा मुख्यः
शब्दव्यापारो विद्यते येषु तान्यभिधावन्ति तादृशैः । तथा उपोटलक्षणैः उपोढा धा-
रिता मुख्यार्थबाघतद्योगसत्त्वे रूढितः प्रयोजनाद्वा मुख्येनामुख्योऽर्थो यल्लक्ष्यते सा ल
क्षणा यैस्तानि तादृशैः । तथा अमन्दः प्रचुरो ध्वनिर्व्यङ्गयस्य प्राधान्ये उत्तमकाव्याप-
पर्यायो ध्वनिर्येषु तानि तादृशैः पदैः । कैरिव । तुरगोत्तमैर्जात्य श्वैर्वनायुजादिभिर्यथा
कश्चित्स्वामिनं सेवते तद्वत् । तैरपि किंभूतैः । उदारो वर्णः श्वेतपीतादिर्येषां तादृशैः ।
तथा रथेन स्यन्दनेन संगतैः । तथा अभितो धावद्भिष्टीकमानैः । तथा उपोढानि ल-
क्षणानि गलोद्देशस्थदेवमण्यादिचिह्नानि येषु तादृशैः । तथा अमन्दो महान्ध्वनिर्देषा-
रवो येषां ते तादृशैः ॥
 

 
३४९
 
शिवेन देव्या जगृहे करोऽहितस्त्रसन्यदा कुङ्कुमपङ्करोहितः ।
 
तदास्य योऽर्काग्निनिशाकरोहितः स्तवः स वः स्यादभयंकरो हितः ॥ २ ॥
अहितः कङ्कणीभूताद्वासुकेबसन् कुङ्कुमपङ्केन रोहितो रक्तो देव्याः पार्वत्याः करः
पाणिर्यदा विवाहसमये शिवेन श्रीशंभुना जगृहे तदा तस्मिन्कालेऽस्य भगवतो यः स्त-
वोऽर्काग्निनिशाकरोहितः अर्कः सूर्यश्चाग्निश्च निशाकरश्च तैरूहितो व्यञ्जितः प्रकटीकृतः
स स्तवो वो युष्माकमभयंकरो हितश्च स्यादस्तु ॥
 
अनञ्जनं नेत्रविकासकारणं निरङ्कुशं कर्णकरेणुवारणम् ।
 
अचन्द्रिकं चित्तचकोरपारणं क्रियाद्व ईशार्चनमार्तिदारणम् ॥ ३ ॥
 
ईशार्चनं श्रीशंभुपूजनं वो युष्माकमार्तिदारणं आर्तेः पीडायाः खण्डशःकरणं क्रि-
यात् । ईशार्चनं किंभूतम् । नेत्रविकासस्य ज्ञानदृष्टेविकासकारणम् । किंभूतम् । अविद्य-
मानमअनं मायारूपं सौवीराजनं च यत्र तत् । पुनः किंभूतम् । कर्णा एव करेणवस्तेषां
वारणं रोधकम् । किंभूतम् । निरङ्कुशमङ्कुशानिष्क्रान्तम् । पुनः किंभूतम् । चित्तमेव च-
पक्षिविशेषस्तस्य पारणं तृप्तिकरम् । किंभूतम् । अचन्द्रिकं चन्द्रिका
इन्दुप्रकाशस्तद्रहितम् । अत्र विभावनालंकारध्वनिः । 'कारणाभावे कार्योत्पत्तिर्विभा-
वनां' इत्यलंकारसर्वस्वकारः ॥
 
कोरो ज्योत्स्ना
 

 
सुखाकरोति कमहन्नमाधवस्तथा मरौ नोपवनेऽपि मा धवः ।
 
यथा शरीरार्धनिरुद्धमाधवः प्रशस्यमानो भगवानुमाधवः ॥ ४ ॥
 
Digitized by Google