This page has not been fully proofread.

३४८
 
काव्यमाला ।
 
सैव श्रेयः प्रथयति यथा देव राजीवराजी
 
त्वत्संपर्काद्धटयति न कि मङ्गलाभङ्गलाभम् ॥ २५ ॥
 
हे देव जगदीश, विबुधसरितो गङ्गायास्तरङ्गाणामन्तरं गच्छतीति तादृशीं तरङ्गा-
न्तरङ्गां तथा अशस्ता अप्रशस्ता ये केशास्तैः प्रोता तादृशीं पुरुषशिरसां कपालानां
भीमां यां पति मस्तके शिरसि धत्से सैव कपालपर्यिथा राजीवराजी पद्मश्रेणी श्रेयो
मङ्गलं ददाति तथा त्वत्संपर्कात्त्वत्स्पर्शात्सेव श्रेयः प्रथयति विस्तारयति । युक्तं चैतत् ।
सैव त्वत्संपर्कान्मङ्गलस्याभङ्गोऽविनाशः स एव लाभस्तं किं न घटयति ॥
कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां
 
संपत्ति मानयन्तः कुसुमबलगलद्वालतानां लतानाम् ।
सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा-
मन्तस्त्वद्भक्तिभाजः सितकरकिरणैरुत्तमायां तमायाम् ॥ २६ ॥
हे विभो । हन्त आश्चर्ये । कुसुमानां पुष्पाणां बलेनातिशयेन गलन्ती बालता बा
लत्वं यासां तादृशीनां लतानां संपत्ति मानयन्तः तासामेव लतानामुपान्ते समीपेक
लिकाभिर्दामानि स्रजस्तेषां शेषा मालाः । विरचिताः कलिकादामशेषा यस्य सा ता-
दृशीम् अशेषां शय्यां कृत्वा अविरता रती रमणं सक्तिर्वा येषां तादृशा दरीणां गुहाना-
मन्तः सितकरकिरणैश्चन्द्र
कौरुत्तमायामतिशोभितायां तमायां रात्रौ सुन्दरीणां रमणीनां
वृन्दैस्त्वद्भक्तिभाजो धन्याः सेव्यते ॥
 
हन्ताहंतावृतानां मह इव रजनी भासमानं समानं
 
ज्ञानं ज्ञानन्दकारि ग्लपयति विलसद्बोधनाशा धनाशा ।
वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन
 
श्रेयः श्रेयस्करस्त्वं भव भवसि विषद्भाजनानां जनानाम् ॥ २७ ॥ ।
हन्त कष्टे । अहंतावृतानामहंकारिणां विलसन् विकसन् बोधस्य प्रकाशस्यावबो-
धस्य वा नाशो यस्याः सा तादृशी धनाशा धने आशा भासमानं महस्तेज इव रजनी
रात्रिर्भासमानं शोभमानं समानं सह मानेन वर्तते यत्तादृशं ज्ञानां विदुषामानन्दकारि आन-
न्ददायि ज्ञानं ग्लपयति हरति । वाचा वास्तवेन पारमार्थिकेन स्तवेन वाचालभावं तव
विभोविहितवतां कृतवतां विपत्पात्राणां जनानां हे भव, त्वं श्रेयस्करो मङ्गलदायी य
द्भवसि तदेव श्रेयोऽतिप्राशस्त्यम् ॥
 
इति श्रीराजानक शंकरकण्ठात्म जश्रीरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
पादान्तयमकस्तोत्रमष्टाविंशम् ।
 
Digitized by Google