This page has not been fully proofread.

३४६
 
काव्यमाला ।
 
दृशी सुधारा शोभनप्रवाहवती सुषा पीयूषमपि यस्यास्तव दयाया दास्यमपि दासीभा-
वमपि नार्हति ॥
 
दोषाणां सहसा विधातुमुदयं नो सांप्रतं सांप्रतं
स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां मा दृशाम् ।
ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय-
न्नार्ति न प्रकटीकरोति बत कामाशां करः शांकरः ॥ २० ॥
 
सांप्रतमिदानीं सहसा तत्क्षणमेव दोषाणां पुनः पुनः संसृतिजक्लेशोत्थानां अथ च
भवोत्थदोषाणामित्र दोषाणां रात्रीणामुदयं विधातुं कर्तुं न सांप्रतं युक्तम् । 'संप्रत्यसांप्रतं
वक्तुमुक्ते मुसलपाणिना' इतिवदत्र समन्वयः । यथा तत्तिमिरं मोहान्धकारं मादृशां
मत्सदृशानां श्रीशिवभक्तिरसामृतसंसिक्तचेतसां दृशां ज्ञानानां दृशां नेत्राणां च स्वालो-
केन स्वावरणेन क्षपणमुपसंहारं मा करोतु । अत्र हेतुमाह —त आश्चर्ये । पूष्णो भा-
स्वतोऽयं पौष्णः सूर्यसंबन्धी करो रश्मिरिव प्रसत्य बलेन कमलोल्लासात् कमलानां प-
मानामुल्लासाद्विकासात् आर्ति सादयन्दूरीकुर्वन् कामाशां कां दिशं न यथा प्रकटीक
रोति तथा शांकरः श्रीशंभुसंबन्धी करः पाणिः प्रसत्य बलेन कमलोल्लासान्मोक्षलक्ष्म्यु-
त्पादनादार्ति भवमरुभ्रमणजक्लेशरूपां सादयत्रिश्चेष्टीकुर्वन् कामाशां मनोभिलषितरूपां
न प्रकटीकरोति । अपि तु सर्वामपि । शब्दश्लेषोऽलंकारः ॥
 
शीतस्निग्धं परिमलसुखं घानसारं न सारं
 
नापि प्रेम्णा कलितललितोद्दामहेला महेला ।
तस्माज्जित्वा भवमनुदितस्तम्भजेयं भजेयं
 
भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥ २१ ॥
 
घनसारः कर्पूरस्तस्येदं घानसारं परिमलसुखं कर्पूरपरिमलजसुखं शीतं च स्निग्धं च
तादृशं सारमुत्कृष्टं न भवति । भवमरुभ्रमणजतापं हर्तुमित्यर्थः । तथा प्रेम्णा स्नेहेन क
लिता धृता ललिता उद्दामा हेला यया । कृतशोभनोत्कटावज्ञेत्यर्थः । तादृश्यपि महेला
वरस्त्री सारं न भवति । निजाभिलषितमाह —–—–तस्मादिति । हे हर संसृतिजदु:खहर,
तस्माद्धेतोरनुदितस्तम्भजेयं न उदित उत्पन्नः स्तम्भो गर्वो येषां ते तादृशा अनुत्पन्नग -
र्वाः संयतचित्तास्तैर्जेयो जेतुं शक्यस्तादृशं भवं संसारं जित्वा परहिते परोद्धरणे आ
रम्भो विद्यते यस्य स तादृशस्तं परहितारम्भवन्तं भवन्तं स्वामिनं भूयोभूयः पुनः पुन
भेजेयम् । 'भज सेवायाम्' धातुः ॥
 
दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते
चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् ।
 
Digitized by Google