2023-10-22 09:54:47 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माधवम् ।
सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं
सेवा कस्य न सिद्धये हतवृथासंकल्प ते कल्पते ॥ १७ ॥
३४५
हे विभो, रावणं दशमुखं पश्यन् । रणे इति शेषः । मघवा इन्द्र ऐरावणमभ्रमुवल्लभं
विहाय त्यक्त्वा गतवान् यत्पलायितः । किं कुर्वन् मघवा । भयात्पाण्डुतया अनुकृत उ
पमितः श्यामाधवो रजनीकरो येन स तादृशस्तं माधवं विष्णुं पश्यन् । अयं सर्वो भ
वतः श्रीशंभोः प्रसादमहिमास्ति । किं कुर्वन् । नवं नूतनं तानवं तनोर्लघोर्भावस्तानवं
तं हन्ता दूरीकर्ता । युक्तं चैतत् । हे हतवृथासंकल्प । हता वृथा संकल्पा असत्संकल्पा
येन सा तादृशस्तत्संबोधनम् । ते तव सेवा कस्य न सिद्धये कल्पते प्रभवति ॥
तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय-
नार्
वैदेहीमनघां लभेत सकथं रामो हि तां मोहितां
त्वद्भक्तिं यदि न व्यधास्यत नुतो भ्राजिष्णुना जिष्णुना ॥ १८ ॥
हे विभो, नाकसदां देवानामार्ति मनःपीडां कालयन्दूरीकुर्वन् लङ्कानगरी आलयो
निवासो यस्य स तादृशस्तं त्रिजगत्प्रसिद्धं सबलं निशाचरप
हत्वा तथा भीषणमुग्रं वैभीषणं विभीषणस्य रावणानुजस्यायं वैभीषणस्तं विभवमुपेत्य
संप्राप्य अनघां रक्षोगृहनिवासेऽपि निर्दोषां मोहितां प्रियवियोगेन वैदेहीं सीताम् । हि
निश्चये । स रामो दाशरथिः कथं लभेत । कदेत्याह – भ्राजिष्णुना शोभमानेन जिष्णुना
इन्द्रेण स्तुतो रामस्त्वद्भक्
लोकं शोकहरं परं प्रति भृशं संदेहिनां देहिनां
माया मोहतमोविमोहितदृशामायासदा या सदा ।
तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो यदां
यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥ १९ ॥
मोहोऽज्ञानमेव तमस्तेन विमोहिता दृक् ज्ञानमेव दृग्नेत्रं येषां ते तादृशानाम् । तथा
शोकहरं जीर्णवासोवज्जीर्णदेहत्यागान्नवदेहोपलब्ध्या शोकहरं परं लोकं परलोकं प्रति सं-
देहिनामस्ति परलोको नवेति भृशमत्यर्
न्यपि देहेन्द्रियादौ आत्मभ्रमरूपा सदा नित्यमायासदा क्लेशदा भवति तां मायां हन्तुं
निश्चेष्टीकर्
किं नो करोषि । तां कामित्याह – यस्या इत्यादि ।
४४
Digitized by Google