2023-02-23 21:27:56 by ambuda-bot
This page has not been fully proofread.
२८ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं
पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माधवम् ।
सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं
सेवा कस्य न सिद्धये हतवृथासंकल्प ते कल्पते ॥ १७ ॥
३४५
हे विभो, रावणं दशमुखं पश्यन् । रणे इति शेषः । मघवा इन्द्र ऐरावणमभ्रमुवल्लभं
विहाय त्यक्त्वा गतवान् यत्पलायितः । किं कुर्वन् मघवा । भयात्पाण्डुतया अनुकृत उ
पमितः श्यामाधवो रजनीकरो येन स तादृशस्तं माधवं विष्णुं पश्यन् । अयं सर्वो भ
वतः श्रीशंभोः प्रसादमहिमास्ति । किं कुर्वन् । नवं नूतनं तानवं तनोर्लघोर्भावस्तानवं
तं हन्ता दूरीकर्ता । युक्तं चैतत् । हे हतवृथासंकल्प । हता वृथा संकल्पा असत्संकल्पा
येन सा तादृशस्तत्संबोधनम् । ते तव सेवा कस्य न सिद्धये कल्पते प्रभवति ॥
तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय-
नार्ति नाकसदामुपेत्य विभवं वैभीषणं भीषणम् ।
वैदेहीमनघां लभेत सकथं रामो हि तां मोहितां
त्वद्भक्तिं यदि न व्यधास्यत नुतो भ्राजिष्णुना जिष्णुना ॥ १८ ॥
हे विभो, नाकसदां देवानामार्ति मनःपीडां कालयन्दूरीकुर्वन् लङ्कानगरी आलयो
निवासो यस्य स तादृशस्तं त्रिजगत्प्रसिद्धं सबलं निशाचरपति राक्षसाधीशं रावणं
हत्वा तथा भीषणमुग्रं वैभीषणं विभीषणस्य रावणानुजस्यायं वैभीषणस्तं विभवमुपेत्य
संप्राप्य अनघां रक्षोगृहनिवासेऽपि निर्दोषां मोहितां प्रियवियोगेन वैदेहीं सीताम् । हि
निश्चये । स रामो दाशरथिः कथं लभेत । कदेत्याह – भ्राजिष्णुना शोभमानेन जिष्णुना
इन्द्रेण स्तुतो रामस्त्वद्भक्ति यदि न व्यधास्यत ॥
लोकं शोकहरं परं प्रति भृशं संदेहिनां देहिनां
माया मोहतमोविमोहितदृशामायासदा या सदा ।
तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो यदां
यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥ १९ ॥
मोहोऽज्ञानमेव तमस्तेन विमोहिता दृक् ज्ञानमेव दृनेत्रं येषां ते तादृशानाम् । तथा
शोकहरं जीर्णवासोवजीर्णदेहत्यागान्नवदेहोपलब्ध्या शोकहरं परं लोकं परलोकं प्रति सं-
देहिनामस्ति परलोको नवेति भृशमत्यर्थे संशयवतां देहिनां मनुष्याणां या माया अनात्म
न्यपि देहेन्द्रियादौ आत्मभ्रमरूपा सदा नित्यमायासदा क्लेशदा भवति तां मायां हन्तुं
निश्चेष्टीकर्ते विहितः कृतो ज्ञानस्य तत्त्वज्ञानस्योदयो यया सा तादृशीं दयां कृपां मम
किं नो करोषि । तां कामित्याह – यस्या इत्यादि । धनः स्फार उल्लासो यस्याः सा ता-
४४
Digitized by Google