This page has been fully proofread once and needs a second look.

२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२१
 
मित्ते । स्थितिकारणे । तथा भगवता यत्समूढं सम्यगूढं धारितम् । कस्मिन् । ऊढार्ध-

विधौ ऊढो धारितः, विध्यति विरहिणमिति विधुश्चन्द्रः, अर्धविधुरर्धेन्दुर्येन तस्मिन् ।

'विधुर्विष्णुः शशी' इति मङ्गःखः । ऊढार्धविधौ चन्द्रशेखरे । कस्मिन् । कारणे लये संहारे

तस्मिन् ॥
 
Y
 

 
नमः समुत्पादिततारकद्विषे नमस्त्रिधामाश्रिततारकत्विषे ।
 

नमो जगत्तारकपुण्यकर्मणे नमो नमस्तारकराजमौलये ॥ २७ ॥
 

 
नमः समुत्पादितेति । अत्र श्लोके प्रत्येकपादे भगवन्तं प्रति नमस्कारः । समुत्पादि-

तेति । समुत्पादितस्तारकस्य तारकासुरस्य द्विट् शत्रुः कुमारो येन तस्मै । तारकराजमौ-

लये चन्द्रमौलये श्रीशिवाय नमः । तथा त्रिधामेति । त्रीणि धामानि सूर्यसोमाग्रयस्तै-

राश्रितास्तारकेषु कनीनिकासु त्विह्ङ् यस्य स तस्मै नमोऽस्तु । 'कनीनिकायां नक्षत्रे

तारकं तारकापि च' इति विश्वः । तथा जगतो विश्वस्य तारकं पुण्यं मनोज्ञं पवित्रं च

कर्म यस्य तस्मै नमोऽस्तु । 'पुण्यं तु धर्मे सुकृते त्रिषु पूतमनोज्ञयोः' इति मङ्गःखः

 
नमो नमस्तेऽमृतभानुमौलये नमो नमस्तेऽमृतसिद्धिदायिने ।

नमो नमस्तेऽमृतकुम्भपाणये नमो नमस्तेऽमृतभैरवात्मने ॥ २८ ॥
 

 
नमो नमस्त इति । हे परमेश, अमृतभानुमौलये चन्द्रमौलये ते तुभ्यं नमो नमो-

ऽस्तु । तथा अमृतसिद्धिर्निःश्रेयससिद्धिस्तां ददातोतीति तस्मै ते तुभ्यं नमो नमोऽस्तु ।

तथा अमृतकुम्भपाणये सुधाकलशपाणये ते तुभ्यं नमो नमोऽस्तु तथा अमृतभैरवेत्या-

दि । भानि नक्षत्राणि ईरयतीति भेरः कालः तं वायन्ति दूरीकुर्वन्तीति भेरवाः कालग्रा-

ससमाधिरसिका योगिनः । तेषामयं भैरवः । यद्वा भैरवो भीषणः संसारवृत्तविघटनपरो

भैरवः । अमृतभैरवात्मने अमृतेश्वरभैरवात्मने ते तुभ्यं नमो नमः ॥
 

 

 
नमस्तमः पारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशकये ।
 

नमः क्रमव्यस्तसमस्तमूर्तये नमः शमस्थार्पितभक्तिमुक्तये ॥ २९ ॥
 

 
नमस्तम इति । तमसोऽज्ञानादविद्यापर्यायात्पारे परार्ध्या उत्कृष्टा वृत्तिः स्थितिर्यस्य

तस्मै भगवते परमेश्वराय नमः । तथा समस्ता येऽध्वानः षट् । पदाध्वा वर्णाध्वा मन्त्रा-

ध्वा तत्त्वाध्वा कालाध्वा भुवनाध्वा चेति षडध्वानः । तेषु विभक्ता शक्तिर्येन तस्मै

नमोऽस्तु । तथा क्रमेण परिपाट्या ब्रह्मविष्णुरुद्रादिरूपेण व्यस्ता पृथक्कृता समस्ता

मूर्तिर्येन स तस्मै ते नमोऽस्तु । तथा शमे तिष्ठन्तोति शमस्थास्तेषु अर्पिते दत्ते भक्ति-

मुक्ती येन तस्मै ते नमोऽस्तु ॥
 

 
विजयजयप्रदाय शबराय वराय नमः
 

सकलकलङ्कसंकरहराय हराय नमः ।

जगदगदप्रगल्भविभवाय भवाय नमः
 

प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥ ३० ॥
 
Digitized by Google