This page has not been fully proofread.

२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२१
 
मित्ते । स्थितिकारणे । तथा भगवता यत्समूढं सम्यगूढं धारितम् । कस्मिन् । ऊढार्ध-
विधौ ऊढो धारितः, विध्यति विरहिणमिति विधुश्चन्द्रः, अर्धविधुरर्धेन्दुर्येन तस्मिन् ।
'विधुर्विष्णुः शशी' इति मङ्गः । ऊढार्धविधौ चन्द्रशेखरे । कस्मिन् । कारणे लये संहारे
तस्मिन् ॥
 
Y
 
नमः समुत्पादिततारकद्विषे नमस्त्रिधामाश्रिततारकत्विषे ।
 
नमो जगत्तारकपुण्यकर्मणे नमो नमस्तारकराजमौलये ॥ २७ ॥
 
नमः समुत्पादितेति । अत्र श्लोके प्रत्येकपादे भगवन्तं प्रति नमस्कारः । समुत्पादि-
तेति । समुत्पादितस्तारकस्य तारकासुरस्य द्विट् शत्रुः कुमारो येन तस्मै । तारकराजमौ-
लये चन्द्रमौलये श्रीशिवाय नमः । तथा त्रिधामेति । त्रीणि धामानि सूर्यसोमाभयस्तै-
राश्रितास्तारकेषु कनीनिकासु त्विह् यस्य स तस्मै नमोऽस्तु । 'कनीनिकायां नक्षत्रे
तारकं तारकापि च' इति विश्वः । तथा जगतो विश्वस्य तारकं पुण्यं मनोज्ञं पवित्रं च
कर्म यस्य तस्मै नमोऽस्तु । 'पुण्यं तु धर्मे सुकृते त्रिषु पूतमनोज्ञयोः' इति मङ्गः ॥
नमो नमस्तेऽमृतभानुमौलये नमो नमस्तेऽमृतसिद्धिदायिने ।
नमो नमस्तेऽमृतकुम्भपाणये नमो नमस्तेऽमृतभैरवात्मने ॥ २८ ॥
 
नमो नमस्त इति । हे परमेश, अमृतभानुमौलये चन्द्रमौलये ते तुभ्यं नमो नमो-
ऽस्तु । तथा अमृतसिद्धिनिःश्रेयससिद्धिस्तां ददातोति तस्मै ते तुभ्यं नमो नमोऽस्तु ।
तथा अमृतकुम्भपाणये सुधाकलशपाणये ते तुभ्यं नमो नमोऽस्तु तथा अमृतभैरवेत्या-
दि । भानि नक्षत्राणि ईरयतीति भेरः कालः तं वायन्ति दूरीकुर्वन्तीति भेरवाः कालग्रा-
ससमाधिरसिका योगिनः । तेषामयं भैरवः । यद्वा भैरवो भीषणः संसारवृत्तविघटनपरो
भैरवः । अमृतभैरवात्मने अमृतेश्वरभैरवात्मने ते तुभ्यं नमो नमः ॥
 

 
नमस्तमः पारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशकये ।
 
नमः क्रमव्यस्तसमस्तमूर्तये नमः शमस्थार्पितभक्तिमुक्तये ॥ २९ ॥
 
नमस्तम इति । तमसोऽज्ञानादविद्यापर्यायात्पारे परार्ध्या उत्कृष्टा वृत्तिः स्थितिर्यस्य
तस्मै भगवते परमेश्वराय नमः । तथा समस्ता येऽध्वानः षट् । पदाध्वा वर्णाध्वा मन्त्रा-
ध्वा तत्त्वाध्वा कालाध्वा भुवनाध्वा चेति षडध्वानः । तेषु विभक्ता शक्तिर्येन तस्मै
नमोऽस्तु । तथा क्रमेण परिपाट्या ब्रह्मविष्णुरुद्रादिरूपेण व्यस्ता पृथक्कृता समस्ता
मूर्तिर्येन स तस्मै ते नमोऽस्तु । तथा शमे तिष्ठन्तोति शमस्थास्तेषु अर्पिते दत्ते भक्ति-
मुक्ती येन तस्मै ते नमोऽस्तु ॥
 
विजयजयप्रदाय शबराय वराय नमः
 
सकलकलङ्कसंकरहराय हराय नमः ।
जगदगदप्रगल्भविभवाय भवाय नमः
 
प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥ ३० ॥
 
Digitized by Google