This page has been fully proofread once and needs a second look.

३४४
 
काव्यमाला ।
 
मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं
 

यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥ १४ ॥
 

 
विकसन्ती शोभा यस्याः सा तादृशी श्रीर्लक्ष्मीः कंचिदन्यं जनं वसतेः स्थितेर्भाजनं

पात्रं करोतु । कोऽप्यन्यो जनो लक्ष्मीपात्रतामाप्नोत्वित्यर्थः । तथा त्यागतो दानाधि

क्येन प्रीत्या तुष्ट्या मुदं प्रमोदं गतः प्राप्तो न्दिजनो मागधजनः कंचित्प्रशंसतु । नि
-
जाभीप्सितोत्तरपक्षमाह —मन्येऽहं त्वित्यादि । तु पक्षान्तरे । समग्रो यः शोको जन्मज-

रामरणत्रासोत्स्तस्य शमनं तादृशं अन्यासममनन्यसाधारणं तं संन्यासं सर्वसङ्गनिवृत्ति-

रूपं मन्ये जाने । तं कमित्याह – यस्मिन्संन्यासे मनसा वाचा इष्टया अभिप्रेतया चे-

ष्
टया हस्तपादादिव्यापारेण च मृत्युजितं श्रीमृत्युंजयभट्टहाटारकं भजामि । अत्र सन्न्यास-

मिति व्यञ्जनद्वयस्यासत्त्वेऽपि यमकादावदोषः ॥
 

 
रूपं यद्भवतो दधत्परिकरं भौजंगमं जङ्गमं
 

सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् ।

प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं
 

लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥ १५ ॥

 
हे परमेश, भुजंगमानां वासुकिप्रभृतीनामयं भौजंगमस्तादृशं परिकरं सामग्रीरूपं द-

धत् यद्भवतः परमेशितुर्जङ्गमं रूपं सर्वाधीनपदस्थं कृतधियः सचेतसः सेवन्ते तथा

श्रिया लक्ष्म्याः स्वस्थाः कुशलिनः कृतधियो वरमुत्कृष्टं स्थावरं च यदपि रूपं भजन्ते

तदुभयरूपमपि तमसामन्धकाराणां कर्तनं छेदकं वैकर्तनं विकर्तनस्य सूर्यस्य संबन्धि

प्राज्यमुत्कृष्टं ज्योतिरिव प्रसत्ह्य बलेन तमसां मोहमहामोहप्रभृतीनां कर्तनं भवतो वि.
-
भोर्ज्योतिः परज्योतीस्वरूपं लब्ध्वा जनिता स्वाभा आत्मप्रभा यया सा तादृशी प्रतिभा

पर संवित् सतां सचेतनानां कथं न भासताम् अपि तु भासताम् ॥

 
स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं
 

लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् ।

भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते
 

तद्बध्
नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ १६ ॥
 

 
हे मानस चित्त, मरकतवद्गारुत्मतमणिवच्छथाछ्यामस्तादृशं गलं कण्ठं संश्रितं श्रीशंभोः

सेवासु तत्परं लग्नं वासुकिकिं नागाधीशं मङ्गलमनामयं लब्धुं किं स्तोतुं वाञ्छसि ।

काकु: । हे मानस, मदोऽहंकार एव मरुत्तस्य वेगेनाहते भवति त्वयि भक्तिः परमेश्वर-

भावना स्थितितिं चेद्गाहते तत्तदा तस्माद्वा हे चेतः, त्वमपि अहिपतयो वासुकिप्रभृतय

एव प्रावारा आभरणानि यस्य सोऽहिपतिप्रावारः श्रीशंभुस्तस्य सेवारसे धृति रतिं रतिं घ्ध्नासि ॥
 
Digitized by Google