This page has not been fully proofread.

३४४
 
काव्यमाला ।
 
मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं
 
यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥ १४ ॥
 
विकसन्ती शोभा यस्याः सा तादृशी श्रीर्लक्ष्मीः कंचिदन्यं जनं वसतेः स्थितेर्भाजनं
पात्रं करोतु । कोऽप्यन्यो जनो लक्ष्मीपात्रतामाप्नोत्वित्यर्थः । तथा त्यागतो दानाधि
क्येन प्रीत्या तुष्टया मुदं प्रमोदं गतः प्राप्तो बन्दिजनो मागधजनः कंचित्प्रशंसतु । नि
जाभीप्सितोत्तरपक्षमाह —मन्येऽहं त्वित्यादि । तु पक्षान्तरे । समग्रो यः शोको जन्मज-
रामरणत्रासोत्यस्तस्य शमनं तादृशं अन्यासममनन्यसाधारणं तं संन्यासं सर्वसङ्गनिवृत्ति-
रूपं मन्ये जाने । तं कमित्याह – यस्मिन्संन्यासे मनसा वाचा इष्टया अभिप्रेतया चे-
टया हस्तपादादिव्यापारेण च मृत्युजितं श्रीमृत्युंजयभट्टहारकं भजामि । अत्र सन्यास-
मिति व्यञ्जनद्वयस्यासत्त्वेऽपि यमकादावदोषः ॥
 
रूपं यद्भवतो दधत्परिकरं भौजंगमं जङ्गमं
 
सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् ।
प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं
 
लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥ १५ ॥
हे परमेश, भुजंगमानां वासुकिप्रभृतीनामयं भौजंगमस्तादृशं परिकरं सामग्रीरूपं द-
धत् यद्भवतः परमेशितुर्जङ्गमं रूपं सर्वाधीनपदस्थं कृतधियः सचेतसः सेवन्ते तथा
श्रिया लक्ष्म्याः स्वस्थाः कुशलिनः कृतधियो वरमुत्कृष्टं स्थावरं च यदपि रूपं भजन्ते
तदुभयरूपमपि तमसामन्धकाराणां कर्तनं छेदकं वैकर्तनं विकर्तनस्य सूर्यस्य संबन्धि
प्राज्यमुत्कृष्टं ज्योतिरिव प्रसत्य बलेन तमसां मोहमहामोहप्रभृतीनां कर्तनं भवतो वि.
भोज्योतिः परज्योतीस्वरूपं लब्ध्वा जनिता स्वाभा आत्मप्रभा यया सा तादृशी प्रतिभा
पर संवित् सतां सचेतनानां कथं न भासताम् अपि तु भासताम् ॥
स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं
 
लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् ।
भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते
 
तनासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ १६ ॥
 
हे मानस चित्त, मरकतवद्गारुत्मतमणिवच्छथामस्तादृशं गलं कण्ठं संश्रितं श्रीशंभोः
सेवासु तत्परं लग्नं वासुकि नागाधीशं मङ्गलमनामयं लब्धुं किं स्तोतुं वाञ्छसि ।
काकु: । हे मानस, मदोऽहंकार एव मरुत्तस्य वेगेनाहते भवति त्वयि भक्तिः परमेश्वर-
भावना स्थिति चेद्गाहते तत्तदा तस्माद्वा हे चेतः, त्वमपि अहिपतयो वासुकिप्रभृतय
एव प्रावारा आभरणानि यस्य सोऽहिपतिप्रावारः श्रीशंभुस्तस्य सेवारसे धृति रतिं बघ्नासि ॥
 
Digitized by Google