This page has been fully proofread once and needs a second look.

२८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३४३
 
-
 
यया अहंतया कारणभूतया सम्यङ्गुमूढेन मया एवंप्रकारण बन्धुता बन्धुसंहतिर्घुता विशेषेण

त्यक्ता । एवं कथमित्याह -अहं लज्जे जिहेह्वेमि । त्वां दृष्ट्वेति शेषः । अतस्त्वं रभसात्त्व-

रया दूरमेव भज । तथा श्रियो लक्ष्म्या मदस्तेन मोहितेन मया तथा विभवस्थेन

विभवे तिष्ठति तादृशेन किं किं न अहितमयुक्तं आहितं विहितम् । हे दयालो, अहं

पुनर्येन वरेणैतामहंतां पुनर्न भजे तं वरं बाघे संकटे हितं मयि धेहि वितर। 'दुधाञ्

दानधारणयी:योः' धातुः ॥
 

 
आनीता चरणान्तिकप्रणयितां कामेन का मेनका
 
कार्य

कार्यं
किं घनभोगसंभृतिविधौ सारम्भया रम्भया ।

कान्ता मे परमेश्वरे हतविपत्संभावना भावना
 

चित्ते कापि रतिर्यया हितहितत्व्रातायते तायते ॥ १२ ॥
 

 
अत्र मे इत्यनेनोत्तरार्धस्थेन संबन्धः । कामेन स्मरोद्रेकेणाभिलाषेण वा चरणान्ति-

कप्रणयितां चरणोपकण्ठप्रणयितामामीनीता मेनकाख्या अप्सरा मे मम का भवति न

कापि । सापि मनोहारिणी मम नेत्यर्थः । तथा घना या भोगसंभृतिर्भोगसामग्री तस्या

विधिस्तत्र सारम्भया सह आरम्भेण वर्तते या तादृश्या रम्भया रम्भाख्ययाप्सरसा च

मम किं कार्यम् । न किंचिदित्यर्थः । निजाभिलाषमुक्त्वा उत्तरपक्षमाह-आहितो

हितानामणिमादिसिद्धिमोक्षलक्ष्मीपर्यायाणां व्रातः समूहो यया सा तादृशी आहित-

हितव्राता काप्यनिर्वाच्या रतिः परमानन्दोपलब्धिश्चत्ते मनसि आयते विस्तीर्णे तायते

विस्तार्यते सा परमेश्वरे श्रीशिवभट्टारके भावना भक्तिर्मे मम कान्ता अतिप्रेयसी भवति ।

किंभूता । हता विपदो जन्मजरामरणसंकटरूपाया: संभावना यया सा तादृशी ॥

 
धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं
 

हंसानामिव रुन्धती भगवतीं गङ्गां तरङ्गान्तरम् ।

तस्याधाय महेशितुर्नुतिगिरां नव्याकृतितिं व्याकृति
 
तिं
भक्त्या निश्चलया नृजन्म सकलं संमानयामानया ॥ १३ ॥

 
यस्य परमेश्वरस्य भव्या रम्या जटा व्याकुलं विशेषेणाकुलं तथा तरङ्गान्तरं तरङ्गा

अन्तरे यस्य तत्तादृशं हंसानां सितच्छदानां कुलं समूहमिव कपालपटलं कपालानां

महाप्रलयेषु संहारितब्रह्मादिमुण्डानां समूहं रुन्धतीं भगवतीतीं गङ्गां धत्ते तस्यैव महे-

शितुः श्रीशिवभहारकस्य नव्याकृतिं नूतनस्वरूपां नुतिगिरां नुतियुक्ता या गिरस्तासां
ब्

व्
याकृतितिं व्याकरणरूपामाधाय कृत्वा सकलं नृजन्म मनुष्यजन्म अनया निश्चलया

भक्त्या वयं संमानयामं ॥
 

 
कंचिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं
 

कंचिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या गतस्त्यागतः ।
 
Digitized by Google