This page has been fully proofread once and needs a second look.

३४२
 
काव्यमाला ।
 
हे भगवन्, दुःसहा या वह्निहेतयोऽग्निज्वालास्ताभिर्विहिता स्फीता आपद्यस्मिबिंधिता स्फीता आपयस्मिन्स
न्स
तादृशं जन्तूनां देहिनां तापदं संतापप्रदं तथा सदा सर्वदा सदाहं सह दाहेन वर्तते वः

स तादृशं नरकं यावन्नाहं भजे तावदेव वचो वचनामृतं मुञ्च । वचः किंभूतम् । संजी-

वनम् । कथम् । यथा मरुपये निर्जलदूरप्रदेशे धावतां बाधावतां पीडावतां तथा भीष्मे-

णोत्ग्रेण ग्रीष्मेण निदाघेन कदर्थ्यमानं व्यथमानं वपुर्येषां तादृशां जवानां जीवनमुदकं

संजीवनं यथा भवति तथा ॥
 

 
न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाहं तया
 

गाढोद्वेगविधायिनी घटयते सायासतां या सताम् ।

तं भोगैरुपसेवते सुमनसामानन्दने नन्दने
 

दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ ९ ॥
 

 
हे भगवन्, गाढमुद्वेगविधायिनी या अहंता अहमित्यस्य भावः सतां साधूनां साया-

सतां सक्लेशतां घटयते तया अहंतया अहतोत्साहं न इत उत्साहो यस्य तत्तादृशमिदं

मनो येन धन्येन पुंसा त्वयि विभौ विषये न्यस्तं तं कृतिनं सुरं देवं भासुरं देदीप्यमानं

विलासेन विकसन्ती शोभा यस्याः सा तादृशी जनता अप्सरोजनसमूहः सुमनसां दे-

वानामानन्दने आनन्ददायिनि देवोद्याने भोगेर्नानाविधैरुपसेवते ॥

 
यस्या हन्ति धृतितिं विवेकविहितद्वाह्रासा विलासाबिला

मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा ।

रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो
 

येनाज्ञानमयं मनस्युपनमत्तापप्रथे पप्रथे ॥ १० ॥
 

 
हे भगवन्, विवेकस्य विहितो ह्वारासो नाशो यया सा विवेकविहितद्वाह्रासा तथा विला-

सेनाबिला तथा विगलन्ती स्खलन्ती वाग्यस्मिन्स तादृशेन विगलद्वाचा तथा चारुणा

रम्येण मदिरामदेन अरुणा यस्या रामायाः कामिन्या मुग्धा रम्या दृक् धृतिं धैर्यं इन्ति

दूरीकरोति । हन्त कष्टे । सा रामा कामिनी येन मोहेन उपरमन्ती तापस्य प्रथा वि

स्तारो यस्मिंस्तादृशे मनस्यज्ञानमयं तमोऽन्धकारं पप्रथे विस्तारितं तं मोहं सा रामा

मेऽर्पयति । मोहं किंभूतम् । कामस्य महास्त्रम् ॥

 
लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता-

संमूढेन मया यया विधृतवानेतामहंतामहम् ।

किं किं श्रीमदमोहितेन विभवस्थेनाहितं नाहितं
 

येनैतां न भजे पुनर्मयि वरं बाघे हितं घेधेहि तम् ॥ ११ ॥

 
हे विभो, अहमेतामहंतामहंभावमहंकारं विधृतवानास्मि । एतामहंतां कामित्याह-
Digitized by Google