This page has not been fully proofread.

३४२
 
काव्यमाला ।
 
हे भगवन्, दुःसहा या वह्निहेतयोऽग्निज्वालास्तामिबिंधिता स्फीता आपयस्मिन्स
तादृशं जन्तूनां देहिनां तापदं संतापप्रदं तथा सदा सर्वदा सदाहं सह दाहेन वर्तते वः
स तादृशं नरकं यावनाहं भजे तावदेव वचो वचनामृतं मुख । वचः किंभूतम् । संजी-
वनम् । कथम् । यथा मरुपये निर्जलदूरप्रदेशे धावतां बाधावतां पीडावतां तथा भीष्मे-
णोत्रेण ग्रीष्मेण निदाघेन कदर्थ्यमानं व्यथमानं वपुर्येषां तादृशां जवानां जीवनमुदकं
संजीवनं यथा भवति तथा ॥
 
न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाहं तया
 
गाढोद्वेगविधायिनी घटयते सायासतां या सताम् ।
तं भोगैरुपसेवते सुमनसामानन्दने नन्दने
 
दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ ९ ॥
 
हे भगवन्, गाढमुद्वेगविधायिनी या अहंता अहमित्यस्य भावः सतां साधूनां साया-
सतां सक्लेशतां घटयते तया अहंतया अहतोत्साहं न इत उत्साहो यस्य तत्तादृशमिदं
मनो येन धन्येन पुंसा त्वयि विभौ विषये न्यस्तं तं कृतिनं सुरं देवं भासुरं देदीप्यमानं
विलासेन विकसन्ती शोभा यस्याः सा तादृशी जनता अप्सरोजनसमूहः सुमनसां दे-
वानामानन्दने आनन्ददायिनि देवोद्याने भोगेर्नानाविधैरुपसेवते ॥
यस्या हन्ति धृति विवेकविहितद्वासा विलासाबिला
मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा ।
रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो
 
येनाज्ञानमयं मनस्युपनमत्तापप्रथे पप्रथे ॥ १० ॥
 
हे भगवन्, विवेकस्य विहितो ह्वासो नाशो यया सा विवेकविहितद्वासा तथा विला-
सेनाबिला तथा विगलन्ती स्खलन्ती वाग्यस्मिन्स तादृशेन विगलद्वाचा तथा चारुणा
रम्येण मदिरामदेन अरुणा यस्या रामायाः कामिन्या मुग्धा रम्या दृक् धृतिं धैर्य इन्ति
दूरीकरोति । हन्त कष्टे । सा रामा कामिनी येन मोहेन उपरमन्ती तापस्य प्रथा वि
•स्तारो यस्मिंस्तादृशे मनस्यज्ञानमयं तमोऽन्धकारं पप्रथे विस्तारितं तं मोहं सा रामा
मेऽर्पयति । मोहं किंभूतम् । कामस्य महास्त्रम् ॥
लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता-
संमूढेन मया यया विधृतवानेतामहंतामहम् ।
किं किं श्रीमदमोहितेन विभवस्थेनाहितं नाहितं
 
येनैतां न भजे पुनर्मयि वरं बाघे हितं घेहि तम् ॥ ११ ॥
हे विभो, अहमेतामहंतामहंभावमहंकारं विटतवानास्म । एतामहंतां कामित्याह-
Digitized by Google