2023-02-23 21:27:56 by ambuda-bot
This page has not been fully proofread.
२८ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
३४१
हे भगवन्परमेश, यैर्धन्यैस्त्वदेकविषया त्वमेव विभुरेको विषयो गोचरो यस्या: सा
तादृशी शेमुषी । 'शेते मनसि इति शेः मोहस्तं मुष्णाति । मूलविभुजादित्वात्कः । गौ-
रादिङीष् । शेमुषी । इति कौमुदी ।" इति रायमुकुट्याम् । शेमुषी बुद्धिः । शमुषी श
मप्रधाना । आ बाल्याद्वाल्यावस्थामारभ्य विदधे कृता ते त्वद्भक्तजनाः संमदं प्रहर्षे बि-
भ्राणाः कलितोल्लासं धृतोत्कर्ष मदं वयं मानिन्यः कमनुयाम इति गर्वमपास्य दूरीकृत्य
मधुरव्याहारिणा मधुरभाषिणा हारिणा हरति मन इति हारी तादृशेन मुक्ताहारवता वा
तरुणीजनेन प्रमदाजनेन सेव्यन्ते । तथा । किं च पक्षान्तरे । त एव जना दिवि स्वर्गे
चन्द्रप्रभारम्यैश्चामरैर्वालव्यजनैश्च करणैर मरैर्देवैः कर्तृभिः सेव्यन्ते ॥
तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय-
नुच्चण्डभ्रुकुटीकरालितमुखो यत्रासकृत्रासकृत् ।
तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं
दुःखानामधिगम्य हन्मि कुमतिप्रादुष्कृतं दुष्कृतम् ॥ ६ ॥
हे ईश्वर जगदीश, उच्चण्डा या भ्रुकुटी तथा करालितं मुखं यस्य स तादृग्यमभट-
स्तूर्ण शीघ्रं वपुः शरीरं प्राणिनां चूर्णयितुं झम्पारयमुत्फ्रुतिवेगं पारयन्संपादयन् यत्र ना-
रकभूमौ असकृद्वहुवारं त्रासकृद्भयकारी भवति तां भूमि महासंकटावानें परिह
दुःखानां संसारजानां बाधनं दूरीकरणं भवत्सेवाघनमधिगम्य प्राप्य कुमत्या दुष्टवासनया
प्रादुष्कृतं प्रकटीकृतं दुष्कृतं पातकं हन्मि निश्चेष्टीकरोमि ॥
मुञ्चद्भिर्यमकिंकरैः कृतमहाजम्मै रवं भैरवं
यावद्दर्शितमाननं न घुसृणक्षोदारुणं दारुणम् ।
तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं
या दूरीकुरुते निरन्तरसुधासंदोहदं दोहदम् ॥ ७॥
हे विभो, कृता महती जृम्भा वऋविकासो यैस्ते तादृशैः कृतमहाजृम्भैः । तथा भै-
रवमुग्रं रवं निनादं मुश्चद्भिर्यमकिंकरैर्यमदूतैः क्रोधेन घुसृणक्षोदवत्कुङ्कुमचूर्णवदरुणमाननं
मुखं यावन मे दर्शितं हे विभो दयालो, तावदेव सत्वरमेहि । या तव हनिरन्तरं सुधा-
संदोहदं पीयूषसंदोहप्रदमभिलाषं दूरीकुरुते तां दृशं दृष्टिं ईदृशीं देहि दृशं किंभूताम् ।
महसां सूर्येन्द्रनीनां धाम स्थानम् ॥
यावद्दुःसहवह्निहेतिविहितस्फीतापदं तापदं
जन्तूनां भगवन्भजामि नरकं नाहं सदाहं सदा ।
तावन्मुञ्च वचो यथा मरुपये बाधावतां धावतां
भीष्मग्रीष्मकदर्थ्यमानवपुषां संजीवनं जीवनम् ॥ ८ ॥
Digitized by Google