This page has been fully proofread once and needs a second look.

३४०
 
काव्यमाला ।
 
शोभितां तथा चित्रा शब्दालंकारभेदचित्रयमकादियुक्ता चासौ आयता दीर्घा च

तादृशीं चित्रायतां इमां मदीयां गिरं श्रुत्वा विभुः स्वतो दयालुर्मो कथं न त्रायताम् ॥

 
मन्ये तां स्पृहणीयगौरवगुणामायामिनीं
 
यामिनीं
 

तत्सेवारसमादधत्तव सुधासंवादिनं वा दिनम् ।

यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं
 

कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ ३ ॥
 

 
हे विभो, यत्र यस्यां यामिन्यां रात्रावुपान्तगतं निकटे द्वारोपान्ते स्थितं तं नन्दिनं

नन्दिरुद्रं द्वारपालमानन्दिनं सानन्दं कुर्वद्भिरुचितैर्वचोभिर्जगत्रयाणामीशस्य प्रभोस्ते

चरितं त्रिपुरदाहाद्यवदानकर्म सुचारु शस्यते स्तूयते तां यामिनीं रात्रिरिं स्पृहणीयो गौ-

रवगुणः पूज्यत्वं महत्त्वं च यस्यास्तां तथा आयामिनीं सविस्तरां च धन्यां मन्ये ।

तथा यत्र दिने पूर्वविशेषणविशिष्टैर्वचोभिर्जगदीशस्य तव चरितं स्तूयते तद्दिनं सुधासं-

वादिनममृतसहोदरं सेवारसमादधत्कुर्वत दिनं वा दिनं च । वाशब्दश्चार्थे । दिनं

तदेव मन्ये ॥
 

 
तस्योदेति सदः सदां विदलितग्लानिर्भरो निर्भरो
 

वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः ।

लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता
 

येन त्वं हृदयाम्बुजे भवभयात्रातोषितस्तोषितः ॥ ४ ॥
 

 
हे विभो, येन धन्येन भवभयात्संसारत्रासात्राता रक्षिता तथा हृदयाम्बुजे हृत्पद्मे उ

षितः स्थितः । 'वस निवासे' धातुः । त्वं विभुस्तोषितस्तस्य कृतिनः सदःसदां सभा-

सदां विदलितग्लानिः खण्डितभवमरुभ्रमश्रमस्तादृशः । तथा परिणमत्पाकः प्रौढतो-

म्भितः अमलः स्वच्छः कोमलो माधुर्यगुणयुक्तश्च निर्भरो घनो वाचां भरस्तस्यैव वक्त्रसरो-

रुहे मुखपद्मे उदेति । महाकविधुर्यः स एव भवति । तथा येन च त्वं विभुस्तोषितः ।

किं च पक्षान्तरे । विभवैराभासिता शोभिता तथा आभया दीप्त्या सिता शुभ्रा च

लक्ष्मीस्तं न जहाति ॥
 

 
सेव्यन्ते भगवन्नेन[^१]पास्य कलितोल्लासं [^२]मदं संमदं

बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा ।

वीज्यन्ते दिवि चन्द्ररश्मिरुचिरै: किंचामरैश्चामरै-

राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥ ५ ॥
 

 
[^
]. 'अवाप्य' ख.
[^
]. 'पदं संपदं' ख.
 
Digitized by Google