2023-02-23 21:27:56 by ambuda-bot
This page has not been fully proofread.
३४०
काव्यमाला ।
शोभितां तथा चित्रा शब्दालंकारभेदचित्रयमकादियुक्ता चासौ आयता दीर्घा च
तादृशीं चित्रायतां इमां मदीयां गिरं श्रुत्वा विभुः स्वतो दयालुर्मो कथं न त्रायताम् ॥
मन्ये तां स्पृहणीयगौरवगुणामायामिनीं
यामिनीं
तत्सेवारसमादधत्तव सुधासंवादिनं वा दिनम् ।
यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं
कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ ३ ॥
हे विभो, यत्र यस्यां यामिन्यां रात्रावुपान्तगतं निकटे द्वारोपान्ते स्थितं तं नन्दिनं
नन्दिरुद्रं द्वारपालमानन्दिनं सानन्दं कुर्वद्भिरुचितैर्वचोभिर्जगत्रयाणामीशस्य प्रभोस्ते
चरितं त्रिपुरदाहाद्यवदानकर्म सुचारु शस्यते स्तूयते तां यामिनीं रात्रि स्पृहणीयो गौ-
रवगुणः पूज्यत्वं महत्त्वं च यस्यास्तां तथा आयामिनीं सविस्तरां च धन्यां मन्ये ।
तथा यत्र दिने पूर्वविशेषणविशिष्टैर्वचोभिर्जगदीशस्य तव चरितं स्तूयते तद्दिनं सुधासं-
वादिनममृतसहोदरं सेवारसमादधत्कुर्वत दिनं वा दिनं च । वाशब्दश्चार्थे । दिनं
तदेव मन्ये ॥
तस्योदेति सदः सदां विदलितग्लानिर्भरो निर्भरो
वाचां वक्रसरोरुहे परिणमत्पाकोऽमलः कोमलः ।
लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता
येन त्वं हृदयाम्बुजे भवभयात्रातोषितस्तोषितः ॥ ४ ॥
हे विभो, येन धन्येन भवभयात्संसारत्रासात्राता रक्षिता तथा हृदयाम्बुजे हृत्पद्मे उ
षितः स्थितः । 'वस निवासे' धातुः । त्वं विभुस्तोषितस्तस्य कृतिनः सदःसदां सभा-
सदां विदलितग्लानिः खण्डितभवमरुभ्रमश्रमस्तादृशः । तथा परिणमत्पाकः प्रौढतो-
म्भितः अमलः स्वच्छः कोमलो माधुर्यगुणयुक्तश्च निर्भरो घनो वाचां भरस्तस्यैव वक्रसरो-
रुहे मुखपद्मे उदेति । महाकविधुर्यः स एव भवति । तथा येन च त्वं विभुस्तोषितः ।
किं च पक्षान्तरे । विभवैराभासिता शोभिता तथा आभया दीत्या सिता शुभ्रा च
लक्ष्मीस्तं न जहाति ॥
सेव्यन्ते भगवन्नेपास्य कलितोल्लासं मदं संमदं
बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा ।
वीज्यन्ते दिवि चन्द्ररश्मिरुचिरै: किंचामरैश्चामरै-
राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥ ५ ॥
१. 'अवाप्य' ख. २. 'पदं संपदं' ख.
Digitized by Google