This page has been fully proofread once and needs a second look.

२८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
श्रीशंभुं स्तुवन्तं पुरुषं धन्यं अवधूतकान्ता संत्यक्तजितकामुका नाम निश्चये का न

अमरवधूः अप्सरा एति भजते । कथम् । अविरामो निरवसानो विरावः शब्दो यत्र

तथा सदूराह्वानमित्यर्थः । तथा रजनीपतिश्रीः शारदेन्दुधवलाङ्गी तथा कान्ता रम
-
णीया नरस्य जनी वधूः मर्त्यस्त्री का न तं श्रीशंभुस्तुतिपरं नैति न भजते । अपि तु

सर्वा एवेति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

पादमध्ययम कस्तोत्रं सप्तविंशम् ।
 

 
अष्टाविंशं स्तोत्रम् ।
 

 
अथेदानीं शब्दालंकारभेदपादान्तयम कस्तोत्रमष्टाविंशमारभमाण आह-

 
अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया
 

नैषा पुष्यति तेन संहृतगतिः शोभारती भारती ।

भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो

यादृक्तादृगतः किमप्यभिदधे संप्रत्यहं प्रत्यहम् ॥ १ ॥
 
-
 

 
कया न शङ्कया जन्मजरामरणत्रासोत्पन्नया मम चेतस्यन्त र्निर्वृतिः संतुष्टिर्नाशं न

गमिता प्रापिता । तेन हेतुना संहृता संकुचिता गतिर्यस्याः सा संहृतगतिः । 'संहृति-

मती' इति पाठे संकोचयुक्ता एषा मम भारती वाणी शोभा च रतिस्तुष्टिश्चेति कर्मभूते

न पुष्यति । तर्हि मौनं विधाय स्थीयतामित्याशङ्क्याह – भक्तिरित्यादि । किंतु पक्षा-

न्तरे । भास्वतः सूर्यस्य यथा आभा प्रभा स्वतो विजृम्भते तथा ममापि भक्तिर्वाङ्मनः-

कायैस्तद्ध्यानासक्तिर्विजृम्भते विशेषेणोल्लसति । अतो हेतोर्यादृक्तादृगुच्चावचं संप्रतीदा-

नीमहं प्रत्यहं प्रतिदिनं किमप्यभिदधे प्रलपामि ॥
 

 
वक्त्रं
बिभ्रददश्भ्रदीर्घदहनज्वालं भयं लम्भय-

न्
नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् ।

प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां
 

श्रुत्वा मां न कथं विभुर्गिरमिमां चित्रायतां त्रायताम् ॥ २ ॥

 
हे दयालो, अदभ्रा घना दीर्घा दहनज्वाला अग्निशिखा यस्य तत्तादृशं वक्रं मुखं

बिभ्रत् । तथा प्राणिनां भयं लम्भयन् । तथा घनं दृढं लङ्घनमुल्लङ्घनं विदधतं कुर्वन्तं

डीद्ग्रीवमुत्क्षिप्तग्रीवं व्यालं कृष्णभुजगं करे घटयन्मृत्युर्यमो मां प्रत्यासीदति समीपमाग-

च्छति । इत्यनेन प्रकारेणोपचितः स्फारः पारिपूर्ण्यं तत्रोचिता युक्ता तादृशीं रोचितां
 
Digitized by Google