This page has not been fully proofread.

२८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
श्रीशंभुं स्तुवन्तं पुरुषं धन्यं अवधूतकान्ता संत्यक्तजितकामुका नाम निश्चये का न
अमरवधूः अप्सरा एति भजते । कथम् । अविरामो निरवसानो विरावः शब्दो यत्र
तथा सदूराह्वानमित्यर्थः । तथा रजनीपतिश्रीः शारदेन्दुधवलाङ्गी तथा कान्ता रम
णीया नरस्य जनी वधूः मर्त्यस्त्री का न तं श्रीशंभुस्तुतिपरं नैति न भजते । अपि तु
सर्वा एवेति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमा अलौ
पादमध्ययम कस्तोत्रं सप्तविंशम् ।
 
अष्टाविंशं स्तोत्रम् ।
 
अथेदानीं शब्दालंकारभेदपादान्तयम कस्तोत्रमष्टाविंशमारभमाण आह-
अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया
 
नैषा पुष्यति तेन संहृतगतिः शोभारती भारती ।
भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो
यादृक्ताहगतः किमप्यभिदधे संप्रत्यहं प्रत्यहम् ॥ १ ॥
 
-
 
कया न शङ्कया जन्मजरामरणत्रासोत्पन्नया मम चेतस्यन्त निर्वृतिः संतुष्टिर्नाशं न
गमिता प्रापिता । तेन हेतुना संहृता संकुचिता गतिर्यस्याः सा संहृतगतिः । 'संहृति-
मती' इति पाठे संकोचयुक्ता एषा मम भारती वाणी शोभा च रतिस्तुष्टिश्चेति कर्मभूते
न पुष्यति । तर्हि मौनं विधाय स्थीयतामित्याशङ्कयाह – भक्तिरित्यादि । किंतु पक्षा-
न्तरे । भास्वतः सूर्यस्य यथा आभा प्रभा स्वतो विजृम्भते तथा ममापि भक्तिर्वाधनः-
कायैस्तयानासक्तिर्विजृम्भते विशेषेणोल्लसति । अतो हेतोर्यादृक्तादृगुच्चावचं संप्रतीदा-
नीमहं प्रत्यहं प्रतिदिनं किमप्यभिदधे प्रलपामि ॥
 
व बिभ्रददश्रदीर्घदहनज्वालं भयं लम्भय-
नुद्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् ।
प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां
 
श्रुत्वा मां न कथं विभुगिरमिमां चित्रायतां त्रायताम् ॥ २ ॥
हे दयालो, अदभ्रा घना दीर्घा दहनज्वाला अग्निशिखा यस्य तत्तादृशं वक्रं मुखं
बिभ्रत् । तथा प्राणिनां भयं लम्भयन् । तथा घनं दृढं लङ्घनमुल्लङ्घनं विदधतं कुर्वन्तं
उडीवमुत्क्षिप्तग्रीवं व्यालं कृष्णभुजगं करे घटयन्मृत्युर्यमो मां प्रत्यासीदति समीपमाग-
च्छति । इत्यनेन प्रकारेणोपचितः स्फारः पारिपूर्ण्य तत्रोचिता युक्ता तादृशीं रोचितां
 
Digitized by Google