This page has been fully proofread once and needs a second look.

३३८
 
काव्यमाला ।
 
रन्धकारं तथा अविषादविषाभिभवं विषादो दुःखमेव विर्षषं गरलं तेनाभिभवः पराभवः

अविद्यञ्चमानो विषादविषाभिभवो यस्य तत्तादृशं च जगद्विहितं ततो हेतोः अहो इत्या-

श्च
र्ये विरहोद्धरणात् रात्रौ यो विरहस्तदुद्धरणात् रथपक्षिणां रथशब्देन तदेकदेशो र-

थाङ्गं गृह्यते तथा रथाङ्गनाम्नां पक्षिणां चक्रवाकाणां मुद्दे तोषाय रविः सूर्य उदेति ।

किं कुर्वन् । तेभ्य एव धृतितिं सौख्यं दिशन् ॥
 

 
विनयशोभियशोभिरतं मनः परहितारहिता विमला मतिः ।
 

विपुलमङ्गलमङ्गमिति प्रभोः प्रतिफलन्ति फलं स्तुतिवीरुधः ॥ ३१ ॥

 
प्रभोः श्रीशंभोः स्तुतिवीरुधः स्तुतय एव वीरुधो लता इति फलं प्रतिफलन्ति द-

दति । इति किमित्याह — श्रीशंभुस्तुत्या विनयेन शोते तादृशं मनश्चित्तं यशसि दा-

नोत्थेऽभिरतं लीनम् । तथा विमला निर्मला सती मतिः परहितारहिता परहितानुकूला

भवति । तथा श्रीशिवस्तुत्या अनंङ्गं च विपुलमङ्गलं विस्तीर्णमङ्गलं भवति ॥
 

 
जितसुधारसुधारसभारतीविभवसंभवसंभृतकीर्तयः ।
 

कविबुधा विबुधाधिपवन्दितं सुकृतिनः कृतिनः स्तुवते शिवम् ॥३२॥

 
शोभना धारा यस्य स सुधारः जितः सुधारः सुधारसोऽमृतरसो येन स तादृग्यो

भारतीविभवो वाक्प्रपञ्चस्तस्य संभव उत्पत्तिस्तेन संभृता पूरिता कीर्तिर्येषां ते तादृशाः

सुकृतिनः पुण्यवन्तः कृतिनो धन्याः कवयो निपुणकविकर्मकुशला बुधा विपश्चितश्च

विबुधाधिपैरिन्द्रादिभिर्वन्दितं शिवं परमेशं स्तुवन्ति ॥
 

 
न महतामहतामलसंविदां मदयिता दयिताधिगमस्तथा ।

मधुरसाधुरसार्द्रपदा यथा सयमका यमकामरिपुस्तुतिः ॥ ३३ ॥
 

 
मधुराण्यत्यन्तमाधुर्यधुर्याणि साधुरसानि शोभनभक्त्यमृतरससिक्तानि आर्द्राण्यत्यन्त

कोमलानि पदानि यस्यां सा तादृशी तथा सयमका सह यमकैर्यमकारूख्यशब्दालंकारै-

र्
वर्तते या तादृशी च यमकामरिपुस्तुतिः कालकामदाहकृतः श्रीशंभोः स्तुतिर्यथा मह-

तां सचेतसां मदयित्री भवति तथा अहता निष्प्रतिघा अमला स्वच्छा संविज्ज्ञानं येषां

तादृशानां महतां महाशयानां दयिता........आनन्दयिता ॥
 

इदानीमस्य स्तोत्रस्योपसंहारार्थं वृत्तमाह-
-
 

 
का नाम नामरवधूरवधूतकान्ता
 

कान्ता न का नरजनी रजनीपतिश्रीः ।

श्रीमन्तमन्तकरिपुं करिपुंगवान्त-

हेतुं स्तुवन्तमविरामविरावमेति ॥ ३४ ॥
 

 
करिणां हस्तिनां पुंगवः प्रशस्त: करी गजासुरस्तस्यान्तो विनाशस्तस्य हेतुस्तं

तथा श्रीर्लक्ष्मीः शोभा च विद्यते यस्य स तादृशं श्रीमन्तमन्तकरिपुमन्तकान्तकरं
 
Digitized by Google