This page has been fully proofread once and needs a second look.

२७ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३३७
 
अयमेतादृग्भवति अर्थादहमेव । असौ च महेश्वर एतादृक् रतिमेत्य प्रीतिमेत्य मे

मम पुरः स्फुरति । उभावपि विशेषणैर्विशिष्टि—अयं मल्लक्षणः कीदृशः । यमानामहिहिं-

सासत्यास्तेय
ब्रह्मचर्यापरिग्रहाणां सौष्ठवं सुष्टुभावं हरति तादृशः । तद्वर्जित इत्यर्थः ।

तथायं मल्लक्षणः कीदृशः । विधुरबन्धुः विधुरा आपदा दीना बन्धवो यस्य स तादृक् ।

पुनः किंभूतः । अवन्ध्यपरिग्रहः अवन्ध्यः सफलः ससंतानत्वात्परिग्रहो दारा यस्य स

तादृक् । असौ महेश्वरोऽपि किंभूतः । यमसौष्ठवहृत् यमस्यान्तकस्य सौष्ठवं शौटीर्यं
-
रति दाहकत्वात्तादृशः । पुनः किंभूतः । परुषं पौरुषेषु महोत्ग्रेषु स्वभक्तेषु पौष्टिकं चेष्टितं

यस्य सः । पुनः किंभूतः । विधुराणां दीनानां बन्धुराश्वासकः । पुनः कीदृशः । अवन्ध्यः

सफलो मनोतिगवरप्रदानात्परिग्रहो ग्रहणं सेवालक्षणं यस्य स तादृक् । अर्थात्प्रभुसेवक-

योर्मेलापो युक्तो जात इत्यर्थः ॥
 

 
अनिनेन धनेन मनस्विनामनुगुणेन गुणेन गरीयसा ।

अभिजनेन जनेन सुदुष्कृतैरशबलेन बलेन च वर्धते ॥ २७ ॥

 
अभिनवेन नवेन शिवस्य यः स्तुतिमुदारमुदारभतेऽमुना ।

अवहितस्य हि तस्य तनोति शं विभवदो भवदोषहरो हरः ॥ २८ ॥
 

(युग्मम्)
 

 
यः पुमान्धन्यः उदारा मुत्प्रमोदो यस्य स उदारमुत् सन् अभिनवेन नूतनेनामुना

नवेन स्तवेन श्रीशिवस्य स्तुतिमारभते स नरोऽनिधनेन निर्विनाशेन धनेन वि-

त्तेनोपलक्षितो वर्धते । तथा तथा मनस्विनामुदारचित्तानामनुगुणेनानुकूलेन गुणेन वि-

क्रमादिना गरीयसातिगुरुणोपलक्षितो वर्धते । तथा अभिजनेन कुलेन जनेन परिवारेण

च वर्धते । तथा सुदुष्कृतैः पातकैरशबलेनाकलुषेण बलेन चोपलक्षितो वर्धते । तथा यः

श्रीशिवस्य स्तुतिमारभते अवहितस्य सावधानचित्तस्य तस्य पुरुषस्य धन्यस्य हि निश्च-

येन विभवदो वैभवप्रदः तथा भवस्य संसृतेर्दोषं पुनः पुनरागमं हरतीति तादृक् हरः

श्रीशिवः शं कल्याणं तनोति ददाति ॥
 

 
स सकलासु कलासु विचक्षणः स मतिमानतिमानसमुन्नतः ।
 

न शशिखण्डशिखण्डमृते स्तुतिं सुकृतवान्कृतवानपरस्य यः ॥ २९ ॥
 

 
यः सुकृतवान्पुण्यवान्धन्यः शशिखण्डशिखण्डं चन्द्रमौलिमृतेऽपरस्यान्यस्य स्तुतिं

न कृतवान्स नरः सकलासु सर्वासु कलासु नृत्तगीतहास्यादिषु विचक्षणो निपुणः ।

तथा मतिमान्बुद्धिमान् अतिमानसमुन्नतोऽत्यर्थेथं मानेन गर्वेण च समुन्नतो भवति ॥
 

 
रविरहो विरहोद्धरणाद्दिशन्धृतिमुदेति मुदे रथपक्षिणाम् ।

यदविषादविषाभिभवं जगत्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ ३० ॥

 
प्रभोः श्रीशंभोः स्तुतिभिः प्रातरुत्थाय विहिताभिर्हेतुभी रविणा सूर्येणासन्तमसं नि
 
४३
 
Digitized by Google
 
-