This page has not been fully proofread.

२७ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
३३७
 
अयमेतादृग्भवति अर्थादहमेव । असौ च महेश्वर एतादृक् रतिमेत्य प्रीतिमेत्य मे
मम पुरः स्फुरति । उभावपि विशेषणैर्विशिष्टि—अयं मल्लक्षणः कीदृशः । यमानामहि-
सासत्यास्तेय
ब्रह्मचर्यापरिग्रहाणां सौष्ठवं सुष्टुभावं हरति तादृशः । तद्वर्जित इत्यर्थः ।
तथायं मल्लक्षणः कीदृशः । विधुरबन्धुः विधुरा आपदा दीना बन्धवो यस्य स तादृक् ।
पुनः किंभूतः । अवन्ध्यपरिग्रहः अवन्ध्यः सफलः ससंतानत्वात्परिग्रहो दारा यस्य स
तादृक् । असौ महेश्वरोऽपि किंभूतः । यमसौष्ठवहृत् यमस्यान्तकस्य सौष्ठवं शौटीर्य ह
रति दाहकत्वात्तादृशः । पुनः किंभूतः । परुषं पौरुषेषु महोत्रेषु स्वभक्तेषु पौष्टिकं चेष्टितं
यस्य सः । पुनः किंभूतः । विधुराणां दीनानां बन्धुराश्वासकः । पुनः कीदृशः । अवन्ध्यः
सफलो मनोतिगवरप्रदानात्परिग्रहो ग्रहणं सेवालक्षणं यस्य स तादृक् । अर्थात्प्रभुसेवक-
योर्मेलापो युक्तो जात इत्यर्थः ॥
 
अनिघनेन धनेन मनस्विनामनुगुणेन गुणेन गरीयसा ।
अभिजनेन जनेन सुदुष्कृतैरशबलेन बलेन च वर्धते ॥ २७ ॥
अभिनवेन नवेन शिवस्य यः स्तुतिमुदारमुदारभतेऽमुना ।
अवहितस्य हि तस्य तनोति शं विभवदो भवदोषहरो हरः ॥ २८ ॥
 
(युग्मम्)
 
यः पुमान्धन्यः उदारा मुत्प्रमोदो यस्य स उदारमुत् सन् अभिनवेन नूतनेनामुना
नवेन स्तवेन श्रीशिवस्य स्तुतिमारभते स नरोऽनिधनेन निर्विनाशेन धनेन वि-
त्तेनोपलक्षितो वर्धते । तथा तथा मनस्विनामुदारचित्तानामनुगुणेनानुकूलेन गुणेन वि-
क्रमादिना गरीयसातिगुरुणोपलक्षितो वर्धते । तथा अभिजनेन कुलेन जनेन परिवारेण
च वर्धते । तथा सुदुष्कृतैः पातकैरशबलेनाकलुषेण बलेन चोपलक्षितो वर्धते । तथा यः
श्रीशिवस्य स्तुतिमारभते अवहितस्य सावधानचित्तस्य तस्य पुरुषस्य धन्यस्य हि निश्च-
येन विभवदो वैभवप्रदः तथा भवस्य संसृतेर्दोषं पुनः पुनरागमं हरतीति तादृक् हरः
श्रीशिवः शं कल्याणं तनोति ददाति ॥
 
स सकलासु कलासु विचक्षणः स मतिमानतिमानसमुन्नतः ।
 
न शशिखण्डशिखण्डमृते स्तुतिं सुकृतवान्कृतवानपरस्य यः ॥ २९ ॥
 
यः सुकृतवान्पुण्यवान्धन्यः शशिखण्डशिखण्डं चन्द्रमौलिमृतेऽपरस्यान्यस्य स्तुतिं
न कृतवान्स नरः सकलासु सर्वासु कलासु नृत्तगीतहास्यादिषु विचक्षणो निपुणः ।
तथा मतिमान्बुद्धिमान् अतिमानसमुन्नतोऽत्यर्थे मानेन गर्वेण च समुन्नतो भवति ॥
 
रविरहो विरहोद्धरणाद्दिशन्धृतिमुदेति मुदे रथपक्षिणाम् ।
यदविषादविषाभिभवं जगत्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ ३० ॥
प्रभोः श्रीशंभोः स्तुतिभिः प्रातरुत्थाय विहिताभिर्हेतुभी रविणा सूर्येणासन्तमसं नि
 
४३
 
Digitized by Google