2023-02-23 21:27:55 by ambuda-bot
This page has not been fully proofread.
३३६
काव्यमाला ।
मम निकामनिकारकृतो वृथा वपुरवापुरवार्यरुषोऽरयः ।
न हि तदाहितदाहमदन्त्यमी तव हितावहिता हि नतेषु धीः ॥ २२ ॥
हे विभो, निकाममत्यर्थे निकारं कुर्वन्तीति तादृशाः तथा अवार्या न वार्या वारणीया
रुट् रोषो येषां ते तादृशाश्चारय आभ्यन्तराः कामक्रोधादयो रिपवो मम भवद्भक्तस्य
वपुरृथा अवापुः । अत्र हेतुमाह - हि यस्मात्कारणात् आहितो विहितो दाहो यस्य त
न्मम वपुर्न अदन्ति भक्षयन्ति । अत्रापि हेतुमाह – नतेषु भक्तिप्रजनेषु तव विभोर्धी:
हितावहिता हिते हितकरणेऽवहिता सावधामा भवति ॥
यदि विभा दिवि भाति न तावकी यदि न मे दिनमेति भवन्मयम् ।
वद महादमहारि तमः कथं विषमदोषमदो विनिवर्तते ॥ २३ ॥
हे परमशिव, तावकी तव त्रिधामनयनस्येयं विभा परज्योतिःस्वरूपा वा दिवि ग
गने बाह्याकाशे हृदयाकाशे च यदि न विभाति । तथा भवान् प्रचुरः सर्वव्यापी यत्र
तद्भवन्मयम् । प्राचुर्ये मयट् । दिनं प्रकाशमयं मे मम यदि न एति प्रकटीभवति त्वं
वद महान्दमः शमस्तं हरतीति महादमहारि तथा विषमा दोषा मायावरणजा अप्रका-
शादयश्च यत्र तादृशं अद एतत् तमोऽज्ञानाख्यं ध्वान्तं च कथं मे विनिवर्तते
निवृत्तिमेति ॥
कमलिनी मलिनीक्रियते यथा विहतसंततसंतमसापि या ।
स्मरचिता रचितापि च यत्र तां वितर कातरकामदुषां दृशम् ॥ २४ ॥
हे दयालो स्वामिन्, कातरेषु शरणागतेषु काममभिलाषं दुग्धे इति कातरकामदुधा
तादृशीं दृशं चन्द्रार्काग्निरूपत्रिधाममयीं वितर देहि । एतत्रिधाममयत्वं क्रमाद्वक्ति-
कमलिनीत्यादि । तां दृशं काम् । यया दृशा वामभागस्थया इन्दुरूपया कमलिनी मलि-
नीक्रियते संकोचमापाद्यते, तथा या दृग्दक्षभागस्था मिहिरमयी विहतं निश्चेष्टीकृतं
संततं सदैव संतमसं ध्वान्तं यया सा तादृशी भवति । तथा यत्र तृतीयस्यां ललाटस्थ-
दृशि दहममय्यां भवता प्रभुणा स्मरस्य कामस्य चिता दहनार्थ चिती रचिता कृता ॥
तुहिनवाहिनवानिलजे मनः सहसि रंहसि रञ्जयति प्रिया ।
न रसिकोरसि कोष्णकुचा तथा तव गुणानुगुणा नुतिगीर्यथा ॥२५॥
हे विभो, गुणेष्वनुगुणानुरक्ता तव नुतिगीः स्तुतिवाग्यथा मनो रञ्जयति सहसि हेम-
न्तर्तौ तुहिनवाहिनवानिलजे प्रालेयवाहिनव्यानिलजाते रंहसि वेगे उरसि वक्षःस्थले
रसिका संसक्ता कोष्णकुचा प्रिया वरनारी मनश्चित्तं तथा न रञ्जयति ॥
अयमसौ यमसौष्ठवहृत्पुरः परुषपौरुषपौष्टिकचेष्टितः ।
विधुरबन्धुरवन्ध्यपरिग्रहः स्फुरति मे रतिमेत्य महेश्वरः ॥ २६ ॥
Digitized by Google