2023-10-22 08:10:39 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
३३५
शंभो, वियदाभरणं नभोलंकरणं सुधाकरश्चन्द्रो दिवि गगने यदा न रमते । तथा चिरा
पतितं स्थिरं दृढमपारं च ध्वान्तं शुचिरग्निर्यदा न अपाकुरुते ॥ अजातघृणो निर्घृणो
मिहिरजस्य रविजस्यान्तकस्याहिः सर्पः पाशरूपस्तनुश्चासौ कृशानुर
दृशीं तनुं यदा
णस्य दीनस्य धृतिं धैर्
निधनसाधनसान्द्रलसद्विषानलकरालकरात्तमहोरगः ।
नियमनाय मनाङ्यम सस्पृहे भवति धावति धाम यमः कथम् ॥ १८ ॥
हे विभो, नियमसाधनं मरणनिमित्तं सान्द्रं
करेणात्तो गृहीतो महानुरगः फणी येन स तादृशो यमो भवति त्वयि स्वामिनि सस्पृहे
स्निग्धे दयापरे सति मनागीषन्नियमनाय नियन्त्रणार्
मदीयं गृहं कथमायातीत्यर्थः ॥
पलितमीलितमीश मम स्मरश्चतुरमातुरमारचयन्वपुः ।
घनबलेऽनवलेपपरे त्वयि प्रभविता भवितापकरः कथम् ॥ १९ ॥
हे ईश स्वामिन्, पलितेन जरसा शौक्ल
केणातुरं मम वपुः शरीरमारचयन् कुर्वन् स्मरः कामो
नवलेपे स्पृहायां दयायां परे सति भविनां देहिनां तापं करोति तादृशः कथं प्रभविता
समर्थो भविष्यति ॥
किमधुना मधुनापि युतो वहन्हरति भीतिमभीष्टतमामपि ।
श्रितमवन्तमवन्ध्यबलं विभुं जयति मां यतिमानहरः स्मरः ॥ २० ॥
मधुना वसन्तेन सख्यापि युतः तथा अभीतिं भयरहितामभीष्टतमामपि प्रियतमा-
मपि रतिं वहन् अधुना इदानीमवन्ध्यबलं महाबलं जगत्प्रसिद्धमवन्तं परिपालयन्तं विभुं
जगदीशं शंभुं श्रितं शरणार्
स्मरः । यतिमानहरः यतीनां संयमिनामपि मानं गर्
विषमरोषमरोः पथि पातयन्मतिमनीतिमनीक्षितसत्प
भृशमयं शमयन्नियमं कथं तव पुरो वपुरोषति मे मदः ॥ २१ ॥
हे स्वामिन्, अनीक्षितः सन्मार्गो यया तादृशीं अनीर्ति नीत्या नयेन रहितां मा
बुद्
नियमं शमयन्नयं मदोऽहंकारस्तव स्वामिनः पुरोऽग्रे वपुः शरीरं भवद्भक्तस्य मे कथमो-
षति दहति । 'उष दाहे' धातुः ॥
Digitized by Google