This page has not been fully proofread.

२७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३३५
 
मूहस्तेन भास्वरी दीप्तो दिनकरः सूर्योऽभ्युदयं यदा न करोति ॥ तथा हे कृपापरमते
शंभो, वियदाभरणं नभोलंकरणं सुधाकरश्चन्द्रो दिवि गगने यदा न रमते । तथा चिरा
पतितं स्थिरं दृढमपारं च ध्वान्तं शुचिरनिर्यदा न अपाकुरुते ॥ अजातघृणो निर्घृणो
मिहिरजस्य रविजस्यान्तकस्याहिः सर्पः पाशरूपस्तनुश्चासौ कृशानुरभिस्तद्वत्कृशा ता-
दृशीं तनुं यदा प्रसते हे शिव विभो, तदा त्वदिरतः कः करुणापरो दयालु ममाशर-
णस्य दीनस्य धृतिं धैर्ये दास्यति ॥ तिलकम् ॥
 
निधनसाधनसान्द्रलसद्विषानलकरालकरात्तमहोरगः ।
 
नियमनाय मनाङ्यम सस्पृहे भवति धावति धाम यमः कथम् ॥ १८ ॥
 
हे विभो, नियमसाधनं मरणनिमित्तं सान्द्रं धनं लसद्यद्विषं तदेवानलस्तेन करालः
करेणात्तो गृहीतो महानुरगः फणी येन स तादृशो यमो भवति त्वयि स्वामिनि सस्पृहे
स्निग्धे दयापरे सति मनागीषन्नियमनाय नियन्त्रणार्थ मम धाम गृहं कथं घावति ।
मदीयं गृहं कथमायातीत्यर्थः ॥
 
पलितमीलितमीश मम स्मरश्चतुरमातुरमारचयन्वपुः ।
 
घनबलेऽनवलेपपरे त्वयि प्रभविता भवितापकरः कथम् ॥ १९ ॥
 
हे ईश स्वामिन्, पलितेन जरसा शौक्लषेन मीलितं संकुचितमपि चतुरं शीघ्रं निजोद्रे-
केणारं मम वपुः शरीरमारचयन् कुर्वन् स्मरः कामो धनबले महाबले त्वयि विभौ अ
नवलेपे स्पृहायां दयायां परे सति भविनां देहिनां तापं करोति तादृशः कथं प्रभविता
समर्थो भविष्यति ॥
 
किमधुना मधुनापि युतो वहन्हरति भीतिमभीष्टतमामपि ।
 
श्रितमवन्तमवन्ध्यबलं विभुं जयति मां यतिमानहरः स्मरः ॥ २० ॥
 
मधुना वसन्तेन सख्यापि युतः तथा अभीतिं भयरहितामभीष्टतमामपि प्रियतमा-
मपि रतिं वहन् अधुना इदानीमवन्ध्यबलं महाबलं जगत्प्रसिद्धमवन्तं परिपालयन्तं विभुं
जगदीशं शंभुं श्रितं शरणार्थ गतं मां स्मरः किं जयति । कथं जयतीत्यर्थः । किंभूतः
स्मरः । यतिमानहरः यतीनां संयमिनामपि मानं गर्व हरतीति तादृशः ॥
 
विषमरोषमरोः पथि पातयन्मतिमनीतिमनीक्षितसत्पयाम् ।
 
भृशमयं शमयन्नियमं कथं तव पुरो वपुरोषति मे मदः ॥ २१ ॥
 
हे स्वामिन्, अनीक्षितः सन्मार्गो यया तादृशीं अनीर्ति नीत्या नयेन रहितां मातें
बुद्धि विषमो यो रोष एव मरुर्निर्जलो दुरध्वा तस्य पथि मार्गे पातयन् तथा भृशमत्यर्थ
नियमं शमयन्नयं मदोऽहंकारस्तव स्वामिनः पुरोऽग्रे वपुः शरीरं भवद्भक्तस्य मे कथमो-
षति दहति । 'उष दाहे' धातुः ॥
 
Digitized by Google