This page has been fully proofread once and needs a second look.

२०
 
काव्यमाला ।
 
देहोर्ध्वभागः तेनोप्ग्रं मुखं यस्य तम् । गरुडं च किंभूतम् । विनतानन्दनम् । विनतायाः

पक्षिराजमातुर्नन्दनः सुतस्तम् । तथा नागैः सर्वैःपैः सह यो विग्रहो वैरं तेनोमंग्रं क्रूरं मुखं

यस्य तम् । 'विग्रहो वैरदेहयोः' इति कोषः ॥
 

 
नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे ।
 

जगत्सर्गस्थितिहाह्रासहेतवे वृषकेतवे ॥ २३ ॥
 

 

 
नमो ब्रह्मेति । ब्रह्मा च हरिश्च त्र्यक्षो रुद्रश्च त एव श्रवः श्रूयते दुदूराञ्जनैरिति श्रवो

यशो यस्य स तस्मै । ब्रह्मविष्णुरुद्रयशसे । यशोर्येयं तद्रूपायेत्यर्थः । तथा भवस्य संसारस्य

जगदूद्रूपसमुद्रस्य सेतुस्तारकस्तस्मै । तथा जगतो विश्वस्य ये सर्गस्थितिहाह्रासास्तेषां हेत-

वे । कार्यार्थं ब्रह्मविष्णुरुद्ररूपाय । एवंभूताय वृषकेतवे श्रीशिवाय नमः ॥
 

 
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
 

भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ २४ ॥
 

 
कर्णिकादिष्विति । कर्णिका कर्णाभरणं ताटङ्कः सा आदिर्येषां ते कर्णिकादयः पदा-

र्थास्तेषु । आदिशब्देन मालाकङ्कणकेयूर नूपुरादिपरिग्रहः । तेषु भेदिषु नामतो भिन्नेषु

यथा स्वर्णेणं कनकमभेदि एकमेव । अर्णवादिषु समुद्रादिषु । आदिशब्देन नदनदीकुल्या-

तडागपुष्करिण्यादिपरिग्रहः । समुद्रादिषूदकं जलं यथा नामतो भिन्नं इदं सामुद्रमिदं

नादेयमित्यादिप्रकारेण नामतो भिन्नेष्वभेदि एकमेवोदकम् । तथा भेदिषु सुरनरपशुपक्षि-

मृगसरीसृपादिनामतो मित्रेभिन्नेषु पृथग्रूपेषु परमार्थत एकमेव परमार्थरूपं तस्मै परस्मै महसे

परज्योतीरूपाय चिदानन्दघनस्वरूपाय परमशिवाय नमः ॥
 

 
यमेकमेव श्रयतो न जायते स्पृहा परस्मै महतेऽपि नाकिने ।

नमः समस्तापदुपेतपालनव्रताय तस्मै विभवे पिनाकिने ॥ २५ ॥
 

 
यमिति । 'पिनाकोऽजगवं धनुः' । पिनाकोऽस्यास्तीति पिनाकी महेशः । तस्मै

नमोऽस्तु । किंभूताय । समस्ता ये आपदुपेता आपन्नास्तेषां पालनमेव व्रतं यस्य सः ।

तस्मै । विभवे प्रभवे । तस्मै कस्मै इत्याह – यमेकमेवेति । यमेकमेव प्रभुं श्रयतो

भक्तजनस्य महतेऽपि परस्मै अन्यस्मै नाकिने देवाय स्पृहा लोभः सेवया वरात्यर्थ न
प्त्यर्थं न
जायते नोत्पद्यते । यं जगदीशं भजतोऽन्येषु देवेषु वराकेषु कैव स्पृहेत्यर्थः ॥
 

 
विधौ जगत्सर्गविधौ यदाहितं प्रतिष्ठितं यत्स्थितिकारणे विधौ ।

समूढमूढार्धविधौ लये च यत्पराय तस्मै महसे नमो नमः ॥ २६ ॥
 

 

 
विधाविति । जगतः सर्गविधौ सर्गस्य सृष्टेर्विधिर्विधानं तस्मित्रिन्निमित्ते । विधत्ते

विधिर्ब्रह्मा । विधौ ब्रह्मणि । विधिशब्द इकारान्तः । भगवता यदाहितमात्तम् । उपा-

हितमित्यर्थः । 'विधिर्विधायके वाक्ये दैवे स्रष्टृविधानयोः' इति मङ्गःखः । तथा भगवता

यत्प्रतिष्ठितं संस्थापितम् । कस्मिन् । विधौ विष्णौ । विधुशब्द उकारान्तः । कस्मिन्नि-
Digitized by Google