2023-02-23 21:27:00 by ambuda-bot
This page has not been fully proofread.
२०
काव्यमाला ।
देहोर्ध्वभागः तेनोप्रं मुखं यस्य तम् । गरुडं च किंभूतम् । विनतानन्दनम् । विनतायाः
पक्षिराजमातुर्नन्दनः सुतस्तम् । तथा नागैः सर्वैः सह यो विग्रहो वैरं तेनोमं क्रूरं मुखं
यस्य तम् । 'विग्रहो वैरदेहयोः' इति कोषः ॥
नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे ।
जगत्सर्गस्थितिहासहेतवे वृषकेतवे ॥ २३ ॥
।
नमो ब्रह्मेति । ब्रह्मा च हरिश्च त्र्यक्षो रुद्रश्च त एव श्रवः श्रूयते दुराअनैरिति श्रवो
यशो यस्य स तस्मै । ब्रह्मविष्णुरुद्रयशसे । यशोर्ये तद्रूपायेत्यर्थः । तथा भवस्य संसारस्य
जगदूपसमुद्रस्य सेतुस्तारकस्तस्मै । तथा जगतो विश्वस्य ये सर्गस्थितिहासास्तेषां हेत-
वे । कार्यार्थ ब्रह्मविष्णुरुद्ररूपाय । एवंभूताय वृषकेतवे श्रीशिवाय नमः ॥
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ २४ ॥
कर्णिकादिष्विति । कर्णिका कर्णाभरणं ताटङ्कः सा आदिर्येषां ते कर्णिकादयः पदा-
र्थास्तेषु । आदिशब्देन मालाकङ्कणकेयूर नूपुरादिपरिग्रहः । तेषु भेदिषु नामतो भिन्नेषु
यथा स्वर्णे कनकमभेदि एकमेव । अर्णवादिषु समुद्रादिषु । आदिशब्देन नदनदीकुल्या-
तडागपुष्करिण्यादिपरिग्रहः । समुद्रादिषूदकं जलं यथा नामतो भिन्नं इदं सामुद्रमिदं
नादेयमित्यादिप्रकारेण नामतो भिन्नेष्वभेदि एकमेवोदकम् । तथा भेदिषु सुरनरपशुपक्षि-
मृगसरीसृपादिनामतो मित्रेषु पृथग्रूपेषु परमार्थत एकमेव परमार्थरूपं तस्मै परस्मै महसे
परज्योतीरूपाय चिदानन्दघनस्वरूपाय परमशिवाय नमः ॥
यमेकमेव श्रयतो न जायते स्टहा परस्मै महतेऽपि नाकिने ।
नमः समस्तापदुपेतपालनव्रताय तस्मै विभवे पिनाकिने ॥ २५ ॥
यमिति । 'पिनाकोऽजगवं धनुः' । पिनाकोऽस्यास्तीति पिनाकी महेशः । तस्मै
नमोऽस्तु । किंभूताय । समस्ता ये आपदुपेता आपन्नास्तेषां पालनमेव व्रतं यस्य सः ।
तस्मै । विभवे प्रभवे । तस्मै कस्मै इत्याह – यमेकमेवेति । यमेकमेव प्रभुं श्रयतो
भक्तजनस्य महतेऽपि परस्मै अन्यस्मै नाकिने देवाय स्पृहा लोभः सेवया वरात्यर्थ न
जायते नोत्पद्यते । यं जगदीशं भजतोऽन्येषु देवेषु वराकेषु कैव स्पृहेत्यर्थः ॥
विधौ जगत्सर्गविधौ यदाहितं प्रतिष्ठितं यत्स्थितिकारणे विधौ ।
समूढमूढार्धविधौ लये च यत्पराय तस्मै महसे नमो नमः ॥ २६ ॥
।
विधाविति । जगतः सर्गविधौ सर्गस्य सृष्टेर्विधिविधानं तस्मित्रिमित्ते । विधत्ते
विधिर्ब्रह्मा । विधौ ब्रह्मणि । विधिशब्द इकारान्तः । भगवता यदाहितमात्तम् । उपा-
हितमित्यर्थः । 'विधिविधायके वाक्ये दैवे स्रष्टविधानयोः' इति मङ्गः । तथा भगवता
यत्प्रतिष्ठितं संस्थापितम् । कस्मिन् । विधौ विष्णौ । विधुशब्द उकारान्तः । कस्मिन्नि-
Digitized by Google