This page has not been fully proofread.

काव्यमाला ।
 
कथमनाथमनागसमन्तिके
 
मदनमर्दन मर्षयसे न माम् ।
 
भुवनभावन भाति विना त्वया जगति कोऽगतिकोद्धरणक्षमः ॥ १२ ॥
मदनं कामं मर्दयतीति तस्य संबोधनं हे मदनमर्दन कामदहन तथा भुवनानि
शिवादिक्षित्यन्तानि भावयति तस्य संबोधनं हे भुवनभावन । हे शंभो, अनागसं निर-
पराधं मां दीनमन्तिके समीपे किं न मर्षयसे किं न सहसे । त्वया दीनदयालुना विना
जगति त्रिजगत्यगतिकानामशरणानामुद्धरणे क्षमः शक्तः को भाति राजते । न को-
ऽपीत्यर्थः ॥
 
३३४
 
यदि कृपापर पापरतस्य मे न कुरुषे परुषे पदमाशये ।
 

 
हिततमा कतमा कलुषात्मनो मम हरामहरा घटते गतिः ॥ १३ ॥
 
हे कृपापर दयापरायण, परुषे रूक्षे पापरतस्य पापिनो मे आशये हृदये पदं स्थानं
यदि न कुरुषे तर्हि हे हर शंभो । 'अम रोगे' धातुः । अमो रोगस्तं हरतीति अमहरा
संसारामयहारिणी कतमा का हिततमा अत्यन्तहिता गतिः कलुषात्मनो मलिनाशयस्य
मम घटते मिलति ॥
 
स्थिरविभा रविभातिरिवोन्मदं मदमयं दमयन्त्यसमन्ततः ।
 
तव दया वद यात्युदयं न चेद्भवतमी बत मीलति मे कथम् ॥ १४ ॥
 
यथा स्थिरविभा दृढंदीप्ती रविभाती रवेः सूर्यस्य भानं रविभातिः सूर्यदीप्तिर्यथा अ
सममनन्यसामान्यं तमोऽन्धकारं दमयति तथैव स्थिरप्रभा उन्मदमुद्भटं मदमयमहंकार-
रूपमनन्यसामान्यं तमोऽज्ञानरूपं दमयन्ती शमयन्ती तव दया कृपा न चेदुदयं याति हे
परमेश, त्वं वद भवः संसार एव तमी रात्रिरज्ञानस्वरूपतमोवृतत्वात् कथं मे मीलति
संकुचति । दूरं गच्छतीत्यर्थः ॥
 
रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः ।
कृतविभातविभाभरभास्वरो दिनकरो न करोत्युदयं यदा ॥ १५ ॥
दिवि यदा वियदामरणं कृपापरमते रमते न सुधाकरः ।
 
न शुचिराशु चिरापतितं यदा स्थिरमपारमपाकुरुते तमः ॥ १६ ॥
तनुकृशानुकृशां ग्रसते यदा मिहिरजाहिरजातघृणस्तनुम् ।
शिव तदा बत दास्यति मे धृतिं त्वदितरः कतरः करुणाकरः ॥ १७ ॥
(तिलकम्)
 
हे विभो शिव, रजनिराजस्य चन्द्रस्य निराकरणं हीनकान्तित्वसंपादनरूपं तत्र क्षमः
शक्तः । तथा क्षतो बाधितो निशातस्तीक्ष्णो निशातिमिरस्य रात्र्यन्धकारस्योत्करः स
मूहो येन स तादृशः । तथा कृतं विभातं प्रभातं येन स तादृशो यो विभाभरो दीप्तिस-
Digitized by Google