2023-10-22 07:54:27 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
चरणयो रणयोग्यबलोऽभवन्नवनतो वनतो भरताग्रजः ॥ ८ ॥
शुभरतो भरतोऽप्यभवद्द्विषद्गरिमहारिमहाः समवाप्य यम् ।
दिश तमीश तमीपतिशेखर स्थिरमनुग्रमनुग्रहमेहि मे ॥ ९ ॥
(युम्मम्)
यं भवदीयानुग्रहं समवाप्य द्विजानां ब्राह्मणानां वसिष्ठविश्वामित्रप्रभृतीनां यः समा-
जस्तस्य यः समाधिः परमात्मन्येका
सक्तो यो रावणो दशमुखस्तस्य यद्राज्यं तस्य हृतौ हरणे कृती निपुणः । वनतः का-
ननतः । कानने स्थितोऽपीत्यर्थः । रणयोग्यबलः रणे सङ्
योग्यं बलं यस्य तादृशो भरताग्रजो रामभद्रोऽभवत् । किंभूतो भरताग्रजः । तव विभो
श्चरणयोश्चरणकमलयोरवनतः प्रणतः । तथा हे तमीपतिशेखर चन्द्रमौले ईश श्रीशिव,
यं भवदीयानुग्रहं स्थिरं दृढं अनु
अग्रजं विना राज्यग्रहणरूपे रतो भरतो रामानुजोऽपि द्विषतां शत्रूणां यो गरिमा गु
रुत्वं तद्धरतीति तादृशं महस्तेजो यस्य स द्विषद्गरिमहारिमहा अभवत् तमनुग्रहं प्रसादं
मे मह्यं दिश देहि त्वं एहि ॥
भृशमनीशमनीतिपथस्थितं मदवशादवशाक्षमुपप्लुतम् ।
अहरह
हे हर सकलपापहर, भृशमत्यर्थमनीशमनाथम् तथा अनीतेः कुनीतेः पन्थास्तत्र
स्थितम् । मदवशादहंकारवशात् अवशान्यनायत्तानि अक्षाणीन्द्रियाणि यस्य स ता
शम् । तथा उप
चमत्युत्कटदुःखम् । मां हितवती सदा हितकारिणी तव विभो रुचिरभिप्रायापरप-
र्याया अहरहः प्रत्यहं मां किं न हर्षयते आनन्दयते । एतादृशं मां दृष्ट्वानुग्रहे रु
कुर्वित्यर्थः ॥
कुशलपेशलपेलवदृग्वमन्रसनया सनयार्तिहृतामृतम् ।
मदनसादन सान्त्वय संपदामपदमापदमाश्रितमेहि माम् ॥ ११ ॥
हे मदनसादन । मदनं सादयति विश्वणाति मदनसादनः । 'षद्
तस्य संबोधनम् । कुशलेन पेशला पेलवा दृग्यस्य स तादृशः कल्याणमधुर
सनयानां नीतिमतामर्तिर्भवार्तिस्तं हरतीति तादृशा सनयार्तिहृता रसनया जिह्वया अमृतं
पीयूषं वमनुद्गिरन् मुञ्चन् । 'टुवमु उद्गिरणे' धातुः । त्वं संपदां मोक्षलक्ष्मीनामपदम-
स्थानम् आपदं जन्मजरामरणरूपां विपदमाश्रितं मां दीनं सान्त्वय आश्वासय त्वमेहि ॥
Digitized by Google