This page has not been fully proofread.

२७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
द्विजसमाजसमाधिकदर्थनप्रवणरावणराज्यहृतौ कृती ।
चरणयो रणयोग्यबलोऽभवन्नवनतो वनतो भरताग्रजः ॥ ८ ॥
शुभरतो भरतोऽप्यभवद्विषद्गरिमहारिमहाः समवाप्य यम् ।
दिश तमीश तमीपतिशेखर स्थिरमनुग्रमनुग्रहमेहि मे ॥ ९ ॥
 
(युम्मम्)
 
यं भवदीयानुग्रहं समवाप्य द्विजानां ब्राह्मणानां वसिष्ठविश्वामित्रप्रभृतीनां यः समा-
जस्तस्य यः समाधिः परमात्मन्येकाप्रचित्तत्वं तस्य यत्कदर्शनं भङ्गस्तत्र प्रवणः
सक्तो यो रावणो दशमुखस्तस्य यद्राज्यं तस्य हृतौ हरणे कृती निपुणः । वनतः का-
ननतः । कानने स्थितोऽपीत्यर्थः । रणयोग्यबलः रणे सङ्क्रामे तादृशेन वैरिणा सह युद्धे
योग्यं बलं यस्य तादृशो भरताग्रजो रामभद्रोऽभवत् । किंभूतो भरताग्रजः । तव विभो
चरणयोश्चरणकमलयोरवनतः प्रणतः । तथा हे तमीपतिशेखर चन्द्रमौले ईश श्रीशिव,
यं भवदीयानुग्रहं स्थिरं दृढं अनुप्रमनुद्भटं मङ्गलदायिनं प्रसादं समवाप्य शुभकर्मणि
अग्रजं विना राज्यग्रहणरूपे रतो भरतो रामानुजोऽपि द्विषतां शत्रूणां यो गरिमा गु
रुत्वं तद्धरतीति तादृशं महस्तेजो यस्य स द्विषद्गरिमहारिमहा अभवत् तमनुग्रहं प्रसादं
मे मह्यं दिश देहि त्वं एहि ॥
 
भृशमनीशमनीतिपथस्थितं मदवशादवशाक्षमुपप्लुतम् ।
 
अहरहईर हर्षयते न किं हृतवती तव तीव्रशुचं रुचिः ॥ १० ॥
 
हे हर सकलपापहर, भृशमत्यर्थमनीशमनाथम् तथा अनीतेः कुनीतेः पन्थास्तत्र
स्थितम् । मदवशादहंकारवशात् अवशान्यनायत्तानि अक्षाणीन्द्रियाणि यस्य स ताह-
शम् । तथा उपश्रुतमुपद्रुतम् । वैरिभिः कामक्रोधादिभिराभ्यन्तरैरित्यर्थः । तथा तीव्रशु-
चमत्युत्कटदुःखम् । मां हितवती सदा हितकारिणी तव विभो रुचिरभिप्रायापरप-
र्याया अहरहः प्रत्यहं मां किं न हर्षयते आनन्दयते । एतादृशं मां दृष्ट्वानुग्रहे रुचि
कुर्वित्यर्थः ॥
 
कुशलपेशलपेलवदृग्वमन्रसनया सनयार्तिहृतामृतम् ।
 
मदनसादन सान्त्वय संपदामपदमापदमाश्रितमेहि माम् ॥ ११ ॥
 
हे मदनसादन । मदनं सादयति विश्वणाति मदनसादनः । 'षद्ल विशरणे' धातुः ।
तस्य संबोधनम् । कुशलेन पेशला पेलवा दृग्यस्य स तादृशः कल्याणमधुर सौम्यदृष्टिस्त्वं
सनयानां नीतिमतामतिर्भवार्तिस्तं हरतीति तादृशा सनयार्तिहृता रसनया जिह्वया अमृतं
पीयूषं वमनुगिरन् मुञ्चन् । 'टुवमु उद्गिरणे' धातुः । त्वं संपदां मोक्षलक्ष्मीनामपदम-
स्थानम् आपदं जन्मजरामरणरूपां विपदमाश्रितं मां दीनं सान्त्वय आश्वासय त्वमेहि ॥
 
Digitized by Google