2023-02-23 21:27:54 by ambuda-bot
This page has not been fully proofread.
३३२
काव्यमाला ।
विमुखम् । भुजगराजेति । अत्राप्यपिशब्द आर्थः । भुजगराजानां वासुकिप्रभृतीनां यो
गरो विषं स एवाग्निस्तस्य या शिखानां ज्वालानामावली सैव विषमः क्रूरो वेषो ने-
पथ्यं यस्य स तादृशमपि न वेपथुं कम्पं ददातीति तादृशम् । अभयकरमित्यर्थः । तथा
अधीशं किंभूतम् । वरमुत्कृष्टम् । तथा अघोरं त्रिजगदुद्धरणाय धृतसकलरूपं परमशिवं
शमिषु जितेन्द्रियेषु कामिषु सांसारिकजनेषु कारुणिकेषु सत्वगुणभूयिष्ठेषु अघोपशमने
दोषोपशमने पापोपशमने क्षमस्तम् । घना भूयसी या विपन्नानां विपत्पतितानां विप-
त्तस्या निधनं विनाशस्तत्र परम उत्कृष्टश्चासौ धीरस्तादृशम् । युग्मम् ॥
श्रुतनयास्तनयास्तनुमध्यमा युवतयो बत योगिमनोहृतः ।
यदघनामघनामयवैशसं तदमृतेशमृते शमयन्ति किम् ॥ ५ ॥
बत आश्चर्ये । अघनाम अघं पापमिति यस्य नाम तत्तादृशं घनश्वासावामयो
जन्मजरामरणत्रासरूपस्तस्मादुत्पन्नं वैशसं दुःखं यद्भवति तदुःखममृतेशममृतेश्वरभैर-
वरूपं श्रीमृत्युंजयमृते विना श्रुतनयाः श्रुतः साक्षादवधारितो नयो नीतिशास्त्रं यैस्तादृ-
शास्तनयाः सुताः किं शमयन्ति । देहिनामिति शेषः । नैव शमयितुं समर्था इत्यर्थः ।
तथा योगिनामष्टाङ्गविदामपि मनांसि हरन्तीति तादृश्यो योगिमनोहृतस्तनुमध्यमाः
कृशोदर्यो युवतयस्तरुण्योऽपि श्रीशंभुं विना तद्दुःखं किं शमयन्ति ॥
न हरिणा हरिणाङ्कशिखामणे न विधिना विधिनापि सपर्यता ।
तव पुरा वपुराममृशे वयं क्व नु भवानुभवावृतचेतसः ॥ ६ ॥
हे हरिणाङ्कशिखामणे चन्द्रमौले, हरिणा विष्णुनापि पुरा पूर्व तव वपुः शरीरमन-
लस्कन्धरूपं नाममृशे नाज्ञायि । तस्यान्तो नावगत इत्यर्थः । तथा विधिना शास्त्रोक्तेन
सपर्यंता सेवां कुर्वाणेन । 'नमस्यता' इति पाठे नमस्कुर्वाणेनापि विधिना ब्रह्मणा 'तवै-
श्वर्य यत्नाद्यदुपरि विरियो हरिरघः' इत्याख्याने पुरा पूर्वे तव वपुर्नाममृशे नाज्ञायि
वयं तु क्व नु भवामस्त्वत्स्तुतिविधाने । किंभूता वयम् । भवानुभवेन भवस्य जन्मनो-
ऽनुभवस्तेनावृतं चेतो येषां ते तादृशाः । मायावरणावृतमनस इत्यर्थः ॥
चतुरगास्तुरगा नगजा गजाः स्थिरमुदारमुदात्तबलं बलम् ।
प्रभवता भवता विहिते हिते प्रतिदिशन्ति दिशं कमलामलाम् ॥ ७ ॥
हे विभो, प्रभवता प्रभुणा भवता हिते शुभदृष्टधंशनिपाते विहिते कृते सति एतानि
वस्तूनि कमलामलां कमलया लक्ष्म्या अमला रम्या तां दिशं मार्ग प्रतिदिशन्ति वि
तरन्ति संदर्शयन्ति च । एतानि कानीत्याह - चतुरगा इत्यादि । चतुरं शीघ्रं गच्छन्ति
चतुरगाः शीघ्रगा अश्वाः । तथा नगाद्विन्ध्याद्रिप्रभृतेः पर्वताज्जाता गजा हस्तिनश्च ।
तथा स्थिरं दृढमनन्यतोगामि उदारं महत् उदात्तबलं महाबलयुतं बलं सैन्यं च ।
'दिगुपाये निदर्शने । मार्गे ककुभि च स्त्री स्यात्' इति मङ्गः ॥
Digitized by Google