This page has not been fully proofread.

२७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३३१
 
कान्तध्वंसिशंसारतानां स्मरारिस्तुतितत्पराणां पुंसाममन्दानन्ददा महानन्दप्रदा रुचिर-
रुचिः रम्याभिप्राया सती चञ्चलत्वं मुश्चति शिवभक्तिरतानां गृहे लक्ष्मीरतिस्थिरैव व-
सतीत्यर्थः । तथा स्मरारिस्तुतिरतानां वऋपद्मे मुखाब्जे मधुरो यो मधुरसः क्षौद्ररसस्त-
तुल्यं भक्तिरसामृतं तेनार्द्रा भारती वाणी चरति विहरत इति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
पादादियमकस्तोत्रं षड्विंशम् ।
 
सप्तविंशं स्तोत्रम् ।
 
अथातः पादमध्ययमकाख्येन चित्रकाव्यभेदेन सप्तविंशं स्तोत्रमारभमाण आह-
जयति संयति संगतपाण्डवप्रहरणाहरणाहितकैतवः ।
तरुणदारुणदाशवपुर्घृतस्थिरयशा रयशालिशरो हरः ॥ १ ॥
 
संयति सङ्ग्रामे संगतवासी पाण्डवोऽर्जुनस्तस्य प्रहरणान्यायुधानि तेषामाहरणे निश्चे-
टीकरणे आहितं कृतं कैतवं छद्म येन सः । तथा तरुणो युवा दारुण उद्भटो यो दाशः
किरातस्तस्येव वपुः शरीरं यस्य सः । अर्जुनानुग्रहाय वृतकिरातरूप इत्यर्थः । तथा धृतं
स्थिरं यशो येन सः । तथा रयेण वेगेन शालन्ते तच्छीलाः शरा इषवो यस्य सः । ए-
वंभूतो हरः श्रीशिवो जयति सर्वोत्कृष्टो वर्तते ॥
 
भुवनपावनपादमधर्षितं मघवताघवतामपि सस्पृहम् ।
 
मुनिजनीनिजनीतिपरीक्षणे धवलकेवलकेलिकृतं स्तुमः ॥ २ ॥
 
भुवनानां शिवादिक्षित्यन्तानां पावनाः पादाश्चरणा यस्य स तादृशम् । तथा मघवता
इन्द्रेण महातेजस्विनाप्यघर्षितमपराभूतम् । तथा अघवतां पापिनामपि सस्पृहं तैरपि
स्पृहणीयम् । तथा मुनीनां या जन्यः स्त्रियस्तासां या निजा नीतिः स्वशीलसंरक्षण-
रूपा तस्याः परीक्षणे परीक्षायां धव एव धवलः कामुकस्तस्य केवलं केलिः क्रीडा तां
करोतीति तादृशं श्रीशिवं वयं स्तुमः । 'जनौ लोकपृथग्जनौ । जनी वधूः' इति मङ्गः ॥
स्थिरमगारमगात्मजया श्रितं स्मरविकारविकासपरामुखम् ।
भुजगराजगराग्निशिखावलीविषमवेषमवेपथुदायिनम् ॥ ३ ॥
शमिषु कामिषु कारुणिकेषु वा वरमघोरमघोपशमक्षमम् ।
घनविपन्नविपन्निधने सदा परमधीरमधीरमुपास्महे ॥ ४ ॥ (युग्मम्)
 
वयमेवंविधमधीशं त्रिजगत्प्रभुमुपास्महे सेवामहे । अधीशं कम् । अगात्मजया पावत्या
श्रितमगारं गृहम् । आरोप: । अगारं कीदृशम् । स्थिरम् । अपिशब्द आर्थः । पार्वत्या
 
सदा श्रितमपि स्मरविकाराणां वियोगिंदशावस्थारूपाणां यो विकासस्तस्मात्पराङखं
 
Digitized by Google