This page has not been fully proofread.

३३०
 
काव्यमाला ।
 
कः स्तम्भकः स्तम्भनिभस्य जिष्णोः कस्तापकस्तापकृतःस्मदस्य ।
कारानुकारानुभवे भवेऽस्मिन्को जीवको जीवभृतां विना त्वाम् ॥ ३१ ॥
. हे विभो, स्तम्भनिभस्य त्वच्छापेन स्तम्भसदृशस्य जिष्णोरिन्द्रस्य कः स्तम्भकस्त्वां
विना । नान्य इत्यर्थः । तथा तापकृतो जगत्रयतापकस्य स्मरस्य पश्चेषोः कोऽन्यो देव-
स्तापको दाहकः । तथा कारानुकारानुभवे कारागृहसदृशप्रभावेऽस्मिन्भवे संसारे जीव-
भृतां देहिनां जीवकस्त्वां विना को भवति । नान्यः कश्चिदित्यर्थः ॥
 
या शंसया शंसति शंभुभक्ति चेष्टासु चेष्टासु रतिं स्मरस्य ।
तामक्षतामक्षयपुण्यकोषादन्यो वदन्यो वहते तनुं कः ॥ ३२ ॥
 
या तनुर्धन्या शंसया स्तुत्या शंभुभक्ति शंसति व्यनक्ति । तथा या च तनुः स्मरस्य
कामस्येष्टास्वभिमतासु चेष्टासु रतिं सक्ति शंसति । तामक्षतामखण्डितां अक्षयो निर्वि-
नाशः पुण्यान्येव कोषो यस्य स तस्मादक्षयपुण्यकोषात्सुकृतिनोऽन्यः को वदन्यो दाता
वहते धारयति । अनेकप्राग्जन्मोपार्जितसुकृतपरिपाकेनैव तादृशी तनुर्भवतीत्यर्थः ॥
 
याहंतया हन्त नृपेऽप्यवज्ञामानञ्ज मानं जनयन्त्यमङ्गम् ।
 
हा निःसहा निःसरणेऽपि भक्त्या सा वागसावागमदन्तिकं ते ॥ ३३ ॥
 
ते
 
हन्त कष्टे । हे विभो, अभङ्गमनश्वरं मानं जनयन्ती उत्पादयन्ती । मानिनीत्यर्थः ।
या वाक् अहंतया दर्पेण नृपेऽपि राशि अपि अवज्ञां आनञ्ज प्रकटीचकार हा कष्टे सै-
वासौ वाक् निःसरणेऽपि बहिर्निर्गमनेऽप्यसहा भक्त्या भक्त्युत्कर्षेण ते तवान्तिकं
समीपमागमत् ॥
 
अथातोऽस्य स्तोत्रस्योपसंहारार्थ वृत्तद्वयमाह-
देवं यदेवं यमकैर्महेशं तुष्टाव तुष्टावसरोचितं गीः ।
 
शस्यो यशस्योऽयमुपस्थितोऽस्मादेनोभिदे नोऽभिमतः प्रसादः ॥ ३४ ॥
 
तुष्टा संहृष्टा एवं पूर्वोक्तप्रकारेण यमकैर्यमकालंकारैः । 'स्वरव्यञ्जनसमुदाय पौनरुक्त्यं
यमकम्' इति सर्वस्वे राजानकरुचकः । महेशं परमेशं देवं यत्तुष्टाव । कथम् । अवसरे
उचितमवसरोचितम् । अयं प्रसादोऽनुग्रहः शस्यस्तुत्यः यशस्यो यशसि साधुश्च नोऽस्मा-
कमेनोभिदे पापक्षयायाभिमत इष्टञ्चास्मान्महेशादुपस्थितः समीपं प्राप्तः ॥
तरलतरलताग्रस्पर्धिनी चञ्चलत्वं
 
रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः ।
चरति च रतिकान्तध्वंसिशंसारतानां
 
मधुरमधुरसार्द्रा भारती वक्रपद्मे ॥ ३५ ॥
 
तरलतरं यल्लतामं तत्स्पर्धते तादृशी तरलतरलताग्रस्पर्धिनी अतिचञ्चलापि श्री रति-
Digitized by Google