This page has not been fully proofread.

३२८
 
काव्यमाला ।
 
भावानुभावानुगमेन रूढा बाला नवालानगता वशेव ।
सानेहसा नेह विहास्यति त्वां कण्ठोपकण्ठोपगतैव वाणी ॥ २३ ॥
 
(युग्मम्)
 
यथा प्रदोषे रजनीमुखे प्रसृता सेवारसे सक्ता निर्भरमतिशयेन रागिणी निर्भया च
वारविलासिनी अभिसारिका तिमिरे कामुकमभिसर्तुमायाति तथा हे चित्त, दोषाः प
ददोषा अर्थदोषाश्च त एव प्रदोषा निशारम्भास्तत्र प्रसृतापि निर्भरं रागो भक्तिरसो वि-
द्यते यस्यास्तादृशी निर्भया निर्निरोधा सेवारसे सक्ता माया अविद्यैव तिमिरं तत्राभिस-
र्तुमभिसरणं कर्तुं त्वामायाति सा वाणी यथा बाला स्त्री भावस्य मानसविकारस्यानुभा-
वस्तस्यानुगमस्तेन रूढा आश्रिता अनेहसा कालेन कण्ठोपकण्ठमुपगता कामुकं न वि
हास्यति । तथा नवं च तदालानं गजबन्धनं तत्र गता बाला वशा करिणी भावानुभा-
वामुगमेन रूढा आश्रिता कण्ठोपकण्ठमुपगता यथा करिणं न त्यजति तथा भावस्य वि-
वेकवैराग्योदितभक्तिरसस्यानुभावस्तस्यानुगमेन रूढा रूढिं प्रसिद्धि प्राप्ता कण्ठस्योपक-
ण्ठोपगता सा न त्वां विहास्यति त्यक्ष्यति । सा तव साहायककारिण्येव सदा भवती-
त्यर्थः ॥ युग्मम् ॥
 
अधुना विभुं विनोदयति कविः-
दिव्या यदि व्यायतकान्तयस्ते गौरीश गौरी शशिनः कला च ।
विघ्नन्ति विघ्नं तिमिराभिधानं तेनाहतेनाहमुपद्रुतः किम् ॥ २४ ॥
 
हे ईश, विशेषेणायता वितता कान्तिर्यासां ता व्यायतकान्तयो गौर्वाणी गौरी पा-
वैती शशिनः कला चन्द्रकला च एतास्तिस्रो यदि ते दिव्या मनोहारिण्योऽद्भुतास्ति-
मिराभिधानं मोहान्धकाराभिधानं विघ्नं यदि विघ्नन्ति विशेषेण घ्नन्ति तेनाइतेन ति-
मिरेणाहं किमुपद्रुतोऽस्मि ॥
 
मुद्योगमुद्योगभृतो भजन्ते शंसन्ति शं सन्ति च निर्विकल्पाः ।
 
भक्ता विभक्ता विपदस्त्वदीयाः कस्मादकस्मादहमेव मग्नः ॥ २५ ॥
 
हे ईश, उद्योगं सर्वेषु कर्मसु बिभ्रति तादृशास्त्वदीया भक्ता मुद्योगं मुद आनन्दस्य
योगो मेलापस्तं भजन्ते । तथा त्वदीया भक्ताः शं कल्याणं शंसन्ति व्यञ्जयन्ति प्रक
टीकुर्वन्ति निर्विकल्पा निश्चिन्ताश्च सन्ति । तथा विपदो विपत्तेर्विभक्ताः पृथग्गताश्च
सन्ति । अकस्मान्निर्हेतुरहमेव केवलं कस्मान्मनः । विपदर्णवे इत्यर्थः ॥
 
वाचां तवाचान्तशुचां शुभानामोघा न मोघा नमतां कदाचित् ।
तैरुद्धतैरुद्धर मामनाथं लीनं कुलीनं कुदशान्धकारे ॥ २६ ॥
हे विभो, नमतां भक्तिप्रवजनानां आचान्ता निःशेषीकृता शुक् शोको याभिस्तासा-
Digitized by Google