This page has been fully proofread once and needs a second look.

२६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३२७
 
रमशिवभक्तिरभयस्य सर्वतः सर्वदा च भयरहितस्य यस्याभरणत्वमेति प्राप्नोति ॥

तिलकम् ॥
 

अथातः कतिपयैः श्लोकैः स्वात्मानं विनोदयति कविः -

 
शङ्का भृशं का भृतकप्रियश्चेदासन्नदासं न जहाति शंभुः ।

नाराधनाराधयितुश्च मिथ्या किं चित्त किंचित्तरलत्वमेषि ॥ १८ ॥

 
सानन्द सा नन्दनभूस्तृणं ते कल्याण कल्याणगिरिः क्व गण्यः ।

सा तेजसा ते जडतामुदस्तकम्पानुकम्पा नुदतीन्दुमौलेः ॥ १९ ॥
ते
 

 
जम्बालजं बालरवेरिवाभादीनं नदीनं नवचन्द्रिकेव ।

साशङ्क सा शंकरभक्तिरुञ्च्चैरक्षामरक्षा मदयिष्यति त्वाम् ॥ २० ॥

 
नो भोगिनो भोगिभिरर्चितो यः सातङ्क सातं कलयञ्जहाति ।

स त्वालसत्वालयदैन्यहारी पास्यत्यपास्यत्यशुभं च शंभुः ॥ २१ ॥
 

(चक्कलकम्)
 

 
हे चित्त, भृशमत्यर्थेथं का ते शङ्का । भृतकप्रियो भृतका भृत्याः प्रिया यस्य स तादृ-

शश्चेत्स्वामी शंभुस्तर्हि आसन्नदासं न जहाति । आराधयितुश्च ते आराधना विभो-

र्
मिथ्या वृथा न भवति । तस्मात् हे चित्त, किंचित्तरलत्वं चञ्चलत्वं किमेषि किं प्रा.
-
प्
नोषि । हे चित्त सानन्द परमानन्दित, सा नन्दन भूर्देवोद्यानभूस्तृणं ते भवति । अतश्च

हे कल्याण, जनेन कल्याणगिरिः कल्याणं सुवर्णं तद्भिरिमेंर्मेरुः क्व गण्यः । हे चित्त, उ

दस्तो दूरीकृतः कम्पस्नासो यया तादृशी इन्दुमौलेर्दीनदयालोरनुकम्पा कृपा ते तव ज
-
डतां तेजसा नुदति निवारयति । हे साशङ्क आशङ्कायत्तचित्त, बालरवेर्बालादित्यस्यामा
भा
दीप्तिर्जम्बालजं पङ्कजं यथा मदयति अदीनं सतरङ्गं नदीनं समुद्रं यथा नवचन्द्रिका म
-
दयति तथोच्चैर्महती अक्षामरक्षा अक्षामा महती रक्षा यस्याः सा तादृशी शंकरभ-

क्तिस्त्वां मदयिष्यति आह्लादयिष्यति । एतदेव पुनरपि समर्थयति – न भोगिन इति ।

हे चित्त सातङ्क आतङ्कयुक्त, भोगिभिः भोगोऽमृततुल्यो विषयास्वादस्तद्युक्तैरर्चितस्तथा

सातं कलयन्सुखमुत्पादयन् यः परमेशो भोगिनः सर्पान् वासुकिप्रभृतीन्नो जहाति । अ-

लसत्वस्यालस्यस्यालयभूतं यद्दैन्यं तद्धरतीति तादृशोऽलसत्वालयदैन्यहारी स शंभुस्त्वा

त्वां पास्यति रक्षति । अशुभममङ्गलं च भवमरुभ्रमणोत्थमपास्यति दूरीकुरुते ॥
 

चक्कलकम् ॥
 

 
दोषप्रदोषप्रसृतापि सक्ता सेवारसे वारविलासिनीव ।
 

यानिर्भया निर्भररागिणी त्वामायाति माया तिमिरेऽभिसर्तुम् ॥ २२ ॥
 
Digitized by Google