2023-02-23 21:27:53 by ambuda-bot
This page has not been fully proofread.
२६ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
३२७
रमशिवभक्तिरभयस्य सर्वतः सर्वदा च भयरहितस्य यस्याभरणत्वमेति प्राप्नोति ॥
तिलकम् ॥
अथातः कतिपयैः श्लोकैः स्वात्मानं विनोदयति कविः-
शङ्का भृशं का भृतकप्रियश्चेदासन्नदासं न जहाति शंभुः ।
नाराधनाराधयितुश्च मिथ्या किं चित्त किंचित्तरलत्वमेषि ॥ १८ ॥
सानन्द सा नन्दनभूस्तृणं ते कल्याण कल्याणगिरिः क्व गण्यः ।
सा तेजसा ते जडतामुदस्तकम्पानुकम्पा नुदतीन्दुमौलेः ॥ १९ ॥
ते
जम्बालजं बालरवेरिवाभादीनं नदीनं नवचन्द्रिकेव ।
साशङ्क सा शंकरभक्तिरुञ्चैरक्षामरक्षा मदयिष्यति त्वाम् ॥ २० ॥
नो भोगिनो भोगिभिरचितो यः सातङ्क सातं कलयञ्जहाति ।
स त्वालसत्वालयदैन्यहारी पास्यत्यपास्यत्यशुभं च शंभुः ॥ २१ ॥
(चक्कलकम्)
हे चित्त, भृशमत्यर्थे का ते शङ्का । भृतकप्रियो भृतका भृत्याः प्रिया यस्य स ताह-
शश्चेत्स्वामी शंभुस्तर्हि आसन्नदासं न जहाति । आराधयितुश्च ते आराधना विभो-
मिथ्या वृथा न भवति । तस्मात् हे चित्त, किंचित्तरलत्वं चञ्चलत्वं किमेषि किं प्रा.
नोषि । हे चित्त सानन्द परमानन्दित, सा नन्दन भूर्देवोद्यानभूस्तृणं ते भवति । अतश्च
हे कल्याण, जनेन कल्याणगिरिः कल्याणं सुवर्ण तद्भिरिमेंरुः क्व गण्यः । हे चित्त, उ
दस्तो दूरीकृतः कम्पस्नासो यया तादृशी इन्दुमौलेदर्दीनदयालोरनुकम्पा कृपा ते तव ज
डतां तेजसा नुदति निवारयति । हे साशङ्क आशङ्कायत्तचित्त, बालरवेर्बालादित्यस्यामा
दीप्तिर्जम्बालजं पङ्कजं यथा मदयति अदीनं सतरङ्गं नदीनं समुद्रं यथा नवचन्द्रिका म
दयति तथोच्चैर्महती अक्षामरक्षा अक्षामा महती रक्षा यस्याः सा तादृशी शंकरभ-
क्तिस्त्वां मदयिष्यति आह्लादयिष्यति । एतदेव पुनरपि समर्थयति – न भोगिन इति ।
हे चित्त सातङ्क आतङ्कयुक्त, भोगिभिः भोगोऽमृततुल्यो विषयास्वादस्तयुक्तैरचितस्तथा
सातं कलयन्सुखमुत्पादयन् यः परमेशो भोगिनः सर्पान् वासुकिप्रभृतीनो जहाति । अ-
लसत्वस्यालस्यस्यालयभूतं यद्दैन्यं तद्धरतीति तादृशोऽलसत्वालयदैन्यहारी स शंभुस्त्वा
त्वां पास्यति रक्षति । अशुभममङ्गलं च भवमरुभ्रमणोत्थमपास्यति दूरीकुरुते ॥
चक्कलकम् ॥
दोषप्रदोषप्रसृतापि सक्ता सेवारसे वारविलासिनीव ।
यानिर्भया निर्भररागिणी त्वामायाति माया तिमिरेऽभिसर्तुम् ॥ २२ ॥
Digitized by Google