This page has not been fully proofread.

३२६
 
काव्यमाला ।
 
निजोचितेनात्मोपपन्नेन धर्मेण प्रकृतितुल्येन करणेन धर्मेण पुरुषार्थेन कर्त्रा यो विभुः
सेव्यते । तथा वृतमभ्यर्थितमभयं येन तादृशेन कामेनाभिलाषेण करुणेन कामेनानङ्गेन
कर्त्रा यः सेव्यते । तथा काले समये नतिमवमानं गतेन कालेन अतीतवर्तमानभविष्य-
द्रूपेण (यमेन) यः सेव्यते । तथा सुखावहेन मन्दमन्दं वाहिना वातेन सदागतिना यो
विभुः सेव्यते । तथा जीवेन बृहस्पतिना तदर्पितेन जीवेनासुधारणेन यो देवः सेव्यते ।
तथा मनोहरेण काव्येन निपुणकविकर्मणा काव्येन शुक्रेणापि यो देवः सेव्यते । तथा
तमोवृतानामन्धकारपरिवलितानां मित्रेण सुहृदा मित्रेण रविणा यः सेव्यते । तथा सौ.
म्येन बुधेन सौम्येन सुशीलेन च यः सेव्यते ॥ युग्मम् ॥
 
लोकान्सलोकान्सदयोऽसृजद्यो धाता विधाता विभुरीप्सितानाम् ।
देवः पदे वः परमे नियोक्ता कामं स कामं सफलीकरोतु ॥ १४ ॥
( द्वादशभिः कुलकम् )
 
य ईप्सितानामभिलषितानां विधाता कर्ता । धाता सृष्टिकार्यार्थ ब्रह्मरूपो लोकान्भु-
वनान्सलोकान्सजनानसृजत् । किंभूतः । सदयः सकृपः । 'लोकस्तु भुवने जने' इत्यमरः ।
स एवंभूतो देवः परमेशः परमे पदे नियोक्ता । कामं निश्चयेन काममभिलषितं वः सफ
लीकरोतु ॥ द्वादशभिः कुलकम् ॥
 
तं वन्दितं बन्दिभिरर्चयन्ते सन्तो लसन्तो ललितैर्वचोभिः ।
तस्याजितस्याजिषु नौति लीलामुत्तालमुत्तालरवेण लोकः ॥ १५ ॥
धीरस्य धीरस्यति तस्य तीक्ष्णा बन्धानुबन्धानुगतां प्रवृत्तिम् ।
दानं ददानं दयितेव रागादानन्ददा नन्दयते च तं श्रीः ॥ १६ ॥
संपन्नसंपन्नवसिद्धिहेतुं धुर्यामधुर्याममरेन्द्रमुख्याः ।
 
भासा शुभा सा शुचिरीशभक्तिर्यस्याभयस्याभरणत्वमेति ॥ १७ ॥
(तिलकम्)
 
ललितैः शोभनैर्वचोभिर्लसन्तः क्रीडन्तः सन्तो बन्दिभिर्मागधैर्वन्दितं स्तुतं तं पु-
रुषं धन्यमर्चयन्ते पूजयन्ति । तथा आजिषु युद्धेष्वपराजितस्य तस्य धन्यस्य लीलां
लोक उत्तालरवेणोच्चैस्तालरवेणोत्तालं त्वरितं नौति स्तौति । तथा अस्य धन्यस्य धी-
रस्य तीक्ष्णा धीर्मेधा निर्निरोधा बन्धस्य भवबन्धस्य योऽनुबन्धस्तमनुगतां प्रवृत्तिं स्थि
तिमस्यति त्यजति तथा दयितेव प्रियतमेव आनन्ददा श्रीलक्ष्मीर्दानमर्थिभ्यो ददानं तं
धन्यं च नन्दयते । कुतः । रागादासक्तिवशात् । तं कमित्याह – संपन्नेति । संपन्ना पू
र्णा या संपत्तस्या नवा या सिद्धिस्तस्या हेतुं यां श्रीशिवभक्ति धुर्यो महतीममरेन्द्रमुख्या
ब्रह्मविष्णुशक्रप्रभृतयोऽधुरधारयन् । भासा दीत्या शुभा कल्याणकारिणी ईशभक्तिः प
 
Digitized by Google