This page has been fully proofread once and needs a second look.

२६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
संख्येष्वसंख्येष्वपि यो भटानां वैरस्य वैरस्यभुवो निदानम् ।

निन्दावनिं दावहुताशवन्तं रोषं खरोषं खलु यः प्रमार्ष्टि ॥ ८ ॥

 
खलु निश्चये । असंख्येषु संख्येषु युद्धेषु यो वैरस्यं विमनस्कता तस्माद्भवति यस्ता-

दृशस्य वैरस्य निदानमादिकारणम् । तथा निन्दाया अवनिं स्थानभूतं विडम्बनास्था

नम् । तथा दावहुताशवन्तं दावाग्निभूतम् । तथा खरोषं खरस्तीक्ष्ण उषो दाहो यस्य स

तादृशं रोषं भटानां योद्धृणां प्रमार्ष्टिंटि शान्तं करोति ।
 

 
यज्ञे नयज्ञेन वृतो न पूर्वं दक्षेण दक्षेण शुभे विधौ यः ।

तस्यानतस्यानघमुज्झितावसादं प्रसादं प्रददौ दयाब्धिः ॥ ९ ॥
 

 
नयज्ञेन नीतिज्ञेनापि । अपिशब्द आर्थः । तथा दक्षेण निपुणेनापि दक्षेण प्रजापति-

नापि पूर्वे शुभे विधौ यज्ञे क्रतौ न वृतो यो देवः पश्चान्निजापराधं जानत आनतस्य प्र

णतस्य तस्य दक्षस्यानघमविघ्नमुज्झितावसादमनश्वरं प्रसादं प्रददौ । किंभूतो यः । दया-

ब्धिः करुणासागरः ॥
 

 
नीतावनीतावचलैरलभ्यः साध्यैरसाध्यैरपि यस्तपोभिः ।
 

सेवालसे बालमुनौ किलोपमन्यावमन्यावकरोत्प्रसादम् ॥ १० ॥
 

 
अविद्यमाना ईतयः षडतिवृष्ट्याद्या उपद्रवा यस्यां सा तादृश्यां नीतावचलैर्दृढैः सा-

ध्यैर्देवयोनिभेदैर्यः स देवोऽलम्योऽप्राप्यः । कैरपि । तपोभिरपि । तपोभिः किंभूतैः । अ-

साध्यैरपि कर्तुमशक्यैरपि । यः अमन्यौ रोषरहिते । किल निश्चये । उपमन्यावुपमन्यु-

नाम्नि बालमुनौ सेवायामलसेऽपि प्रसादं क्षीरोदधिदानरूपमकरोत् ॥
 

 
नायं विना यं विदधाति लोकः कर्मण्यकर्मण्यतयाभियोगम् ।

सत्त्वानसत्त्वानपि नेतुमास्थामर्थः समर्थः स यतोऽभ्युदेति ॥ ११ ॥

 
कर्मणि साधुः कर्मण्यः न कर्मण्योऽकर्मण्यस्तद्भावतया स्वोचितविधानानभिज्ञतया

कर्मण्यभियोगमुद्योगं यं भगवन्तं विना अयं लोको न विदधाति । तथा असत्त्वानधैर्य-

वतोऽपि सत्त्वान्प्राणिन आस्थां स्थिति नेतुं प्रापयितुं समर्थोऽर्थोऽभिधेयं वस्तु यतो य

स्मादभ्युदेत्युत्पद्यते ॥
 

 
धर्मेण धर्मेण निजोचितेन कामेन कामेन वृताभयेन ।
 
३२५
 
१. 'मनोरमेण' क.
 

कालेन काले नतिमागतेन वातेन वा तेन सुखावहेन ॥ १२ ॥

 
जीवेन जीवेन तदर्पितेन काव्येन काव्येन [^१]मनोहरेण ।

मित्रेण मित्रेण तमोवृतानां सौम्येन सौम्येन च सेव्यते यः ॥ १३ ॥

( कुलकमध्ये युग्मम्)
 
-
 
Digitized by Google
 

 
[^१]. 'मनोरमेण' क.