This page has not been fully proofread.

२६ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
संख्येष्वसंख्येष्वपि यो भटानां वैरस्य वैरस्यभुवो निदानम् ।
निन्दावनिं दावहुताशवन्तं रोषं खरोषं खलु यः प्रमार्ष्टि ॥ ८ ॥
खलु निश्चये । असंख्येषु संख्येषु युद्धेषु यो वैरस्यं विमनस्कता तस्माद्भवति यस्ता-
दृशस्य वैरस्य निदानमादिकारणम् । तथा निन्दाया अवनिं स्थानभूतं विडम्बनास्था
नम् । तथा दावहुताशवन्तं दावाग्निभूतम् । तथा खरोषं खरस्तीक्ष्ण उषो दाहो यस्य स
तादृशं रोषं भटानां योद्धृणां प्रमाष्टिं शान्तं करोति ।
 
यज्ञे नयज्ञेन वृतो न पूर्व दक्षेण दक्षेण शुभे विधौ यः ।
तस्यानतस्यानघमुज्झितावसादं प्रसादं प्रददौ दयाब्धिः ॥ ९ ॥
 
नयज्ञेन नीतिज्ञेनापि । अपिशब्द आर्थः । तथा दक्षेण निपुणेनापि दक्षेण प्रजापति-
नापि पूर्वे शुभे विधौ यज्ञे ऋतौ न वृतो यो देवः पश्चानिजापराधं जानत आनतस्य प्र
णतस्य तस्य दक्षस्यानघमविघ्नमुज्झितावसादमनश्वरं प्रसादं प्रददौ । किंभूतो यः । दया-
ब्धिः करुणासागरः ॥
 
नीतावनीतावचलैरलभ्यः साध्यैरसाध्यैरपि यस्तपोभिः ।
 
सेवालसे बालमुनौ किलोपमन्यावमन्यावकरोत्प्रसादम् ॥ १० ॥
 
अविद्यमाना ईतयः षडतिवृष्टयाद्या उपद्रवा यस्यां सा तादृश्यां नीतावचलैर्दृढैः सा-
ध्यैर्देवयोनिभेदैर्यः स देवोऽलम्योऽप्राप्यः । कैरपि । तपोभिरपि । तपोभिः किंभूतैः । अ-
साध्यैरपि कर्तुमशक्यैरपि । यः अमन्यौ रोषरहिते । किल निश्चये । उपमन्यावुपमन्यु-
नाम्नि बालमुनौ सेवायामलसेऽपि प्रसादं क्षीरोदधिदानरूपमकरोत् ॥
 
नायं विना यं विदधाति लोकः कर्मण्यकर्मण्यतयाभियोगम् ।
सत्त्वानसत्त्वानपि नेतुमास्थामर्थः समर्थः स यतोऽभ्युदेति ॥ ११ ॥
कर्मणि साधुः कर्मण्यः न कर्मण्योऽकर्मण्यस्तद्भावतया स्वोचितविधानानभिज्ञतया
कर्मण्यभियोगमुद्योगं यं भगवन्तं विना अयं लोको न विदधाति । तथा असत्त्वानधैर्य-
वतोऽपि सत्त्वान्प्राणिन आस्थां स्थिति नेतुं प्रापयितुं समर्थोऽर्थोऽभिधेयं वस्तु यतो य
स्मादभ्युदेत्युत्पद्यते ॥
 
धर्मेण धर्मेण निजोचितेन कामेन कामेन वृताभयेन ।
 
३२५
 
१. 'मनोरमेण' क.
 
कालेन काले नतिमागतेन वातेन वा तेन सुखावहेन ॥ १२ ॥
जीवेन जीवेन तदर्पितेन काव्येन काव्येन मनोहरेण ।
मित्रेण मित्रेण तमोवृतानां सौम्येन सौम्येन च सेव्यते यः ॥ १३ ॥
( कुलकमध्ये युग्मम्)
 
-
 
Digitized by Google