This page has not been fully proofread.

२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१९
 
जिष्णुनेति । लोकान् जिष्णुना जिष्णुना इन्द्रेण, तथा प्रभवतीति प्रभविष्णुस्तादृशेन
विष्णुना, तथा आद्येन ब्रह्मणा वेदोपनिषदा, ब्रह्मणा परमेष्ठिना स्तुताय स्वामिने नमः ।
'वेदस्तत्त्वं तपो ब्रह्म पुमान्विप्रे प्रजापतौ इति मङ्गः ॥
 
कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् ।
 
नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥ १९ ॥
 
कुलेति । अत्रातिप्रसिद्ध्या भूकेति शेषः । भूलोक एव कमलं तदेवासनं तदद्धिति -
ष्ठते सृष्टिकार्यार्थे ब्रह्मरूपाय ते नमः । कुलशैला मुख्यशैला अष्टौ । 'हिमवाभिषधो
विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनसयौ च नीलश्च कुलपर्वताः ॥' इति ।
कुलशैला एव दलानि यस्य तत् । पूर्णो महान् यः सुवर्णगिरिमेंरुः सैव कर्णिका यस्य ।
तथा अनन्तः शेष एव नालं वृन्तं यस्य तदेवंविधं कमलविष्टरम् । अत्र यतिभवभया-
त्कविना कुवलयस्थाने कमलपदं नेयार्थे रक्षितम् । 'स्यादुत्पलं कुवलयम्' इति कुवलयस्या-
पि कमलजातित्वात् । नेयार्थेऽपि भक्तिविषये न दोषः । तस्मादत्र कमलं कुवलयं को-
र्भूमेर्वलयं भूमण्डलमित्यर्थः । कमलं कुवलयमेव विष्टरमासनमधितिष्ठते आश्रितवते त्र-
झरूपाय महेश्वराय नमः । यत्तु अन्यटीकाकारैः 'कमलाख्यं कुवलयम्' इति व्याख्यातम्,
तत्प्रमादेन लिखितमिति तज्ज्ञैरनादरणीयम् ॥
 
निमित्तमन्तरेणापि यः सपङ्कजनाभये ।
 
प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥ २० ॥
 
निमित्तमिति । यो विभुः सपङ्कजनाभये सह पक्केन पापेन वर्तते यः सपङ्कः । तादृश-
वासौ जनस्तस्याभयं तस्मिन् निमित्तमन्तरेण निमित्तं विना प्रवर्तते नित्योयुक्तो भवति
तस्मै पङ्कजनाभये सृष्टेः स्थित्यर्थे विष्णुरूपाय श्रीशिवाय नमः ॥
 
नमः सोमार्धदेहाय सोमार्धकृतमौलये ।
श्वेताभयसमुद्भुतश्वेताभयशसे नमः ॥ २१ ॥
 
नम इति । सह उमया वर्तते सोमं देहं यस्य स सोमार्धदेहस्तस्मै । तथा सोमस्या
सोमार्ध मौलौ यस्य तस्मै च । श्वेतेत्यादि । श्वेतस्य श्वेतनाम्नो नृपतेरभयं कृतान्तात्रा-
णं तेन समुद्भूतमुत्पन्नं श्वेताभं सितदीप्ति यशो यस्य तस्मै श्रीशिवाय नमः ॥
 
विनतानन्दनं नागविग्रहोग्रमुखं दशा ।
 
विनायकमुपासीनं भजते स्वामिने नमः ॥ २२ ॥
 
विनतेति । विशिष्टो नायको गणानां विनयते देवरिपून् विनायको गणेशः तथा वी-
नां पक्षिणां नायको गरुडः तं चोपासीनं सेवमानं दृशा प्रसन्नदृशा भजतेऽनुगृहृते स्वा-
मिने महेश्वराय कार्यार्थ विष्णुरूपाय नमः । द्वावपि विशिनष्टि - विनतेत्यादि । विनायकं
गणेशं किंभूतम् । विनतायां प्राणां नन्दनं हर्षप्रदम् । तथा नागस्य करिणो विप्रहो देहः
 
Digitized by Google