2023-10-21 10:50:14 by jayusudindra
This page has been fully proofread once and needs a second look.
काव्यमाला ।
धारकान् जनान्करोति ॥
चेतः प्रचेतःप्रमुखा यदेकतानं ततानेकगुणा वहन्ति ।
योगीति यो गीतिषु गीयमानः सिद्धैः प्रसिद्धैः प्रभुरभ्युपेतः ॥ ४ ॥
तथा प्रचेतःप्रमुखा वरुणाद्या लोकपालास्तता विस्तृता अनन्ता गुणा येषां ते ता-
दृशा अपि सन्तश्चेतश्चित्तं यदेकतानं यदेका
गीति अष्टाङ्गयोगोपदेशकोऽयमिति प्रसिद्धैः प्रख्यातैः सिद्धैर्देवयोनिभेदैर्गीयमानो गी-
तिषु स्तूयमानः प्रभुरयमित्यभ्युपेत आश्रितः ॥
मान्योऽधमान्योऽधरयत्युद
।
नामापि नामापिदधाति वीतालोकस्य लोकस्य तमांसि यस्य ॥ ९ ॥
तथा उदग्ररंहोभिर्महावेगैरंहोभिः पापैरपास्तं वृत्तमाचारो यैस्तान् अघमान् यो दे-
योऽधरयत्यधः करोति । किंभूतः । मान्यो जगत्पूज्यः । तथा नाम निश्चये । यस्य पर
मेश्वरस्य केवलं नामापिवीतालोकस्याज्ञानान्धस्य जनस्य तमांसि मोहादिकान्यन्ध-
काराण्यपिदधाति दूरीकरोति ॥
भूतिर्विभूतिर्विपुला दिशश्च वासो निवासो निलयः पितॄणाम् ।
हीनैरहीनैरपि यस्य भूषाराला कराला कलिका च मौलौ ॥ ६ ॥
यस्य देवस्य भूतिर्भस्म विभूतिः संपत् । विपुला विस्तीर्णा दिशश्च वासः । दिग-
म्
वस्य हीनैर्भूतप्रभृतिर्भूषा भुवि तथा स्थानम् । तथा अहीनैर्वासुकिप्रभृतिभिरहीन्द्रैरपि
भूषा आभरणम् । हारकेयूरकङ्कणादिस्थाने तेषां सत्त्वात् । तथा अराला वक्रा कराला
करान् किरणाना समन्ताल्लाति आदत्ते कराला किरणवती कलिका चन्द्रकला च
यस्य देवस्य मौलौ भूषा आभरणम् ।
यः खेऽलयः खेलति यः शिखाभिः सत्यं हसत्यंहतिहारिणीभिः ।
भानां शुभानां शुचिरीश्वरो यस्तानक्षतानक्षिषु यो बिभर्ति ॥ ७ ॥
तथा य ईश्वरोऽक्षतान्परिपूर्णान् तान् (त्रीणि धामानि) अक्षिषु त्रिषु बिभर्ति । तान्
कानित्याह – अलयः अविद्यमानो लयो नाशो यस्य स यो रविः खे आकाशे खेलति
क्रीडति । तथा अंहतिहारिणीभिः पापसंहतिक्षयकारिणीभिः शिखाभिर्ज्वालाभिः सत्य-
मेव निश्चितमेव योऽग्निर्हसति । तथा यः शुचिर्विमलः शुभानां भानां नक्षत्राणामीशः
स्वामी चन्द्रस्तान् ॥
[^१]. 'कृत्यान्' ख.
Digitized by Google