This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
ड्विंशं स्तोत्रम् ।
 

 
अथातः पादादियमकाख्येन चित्रकाव्यभेदेन षडिड्विंशं स्तोत्रमारभमाण आह -

 
हन्तापहन्तापदुपद्रवाणां यस्याक्षयस्याक्षणिकः प्रसादः ।
 

संतापसंतापहरा प्रपेव कान्तारकान्ता रसना च यस्य ॥ १ ॥
ताब्यता

 
ता
दृड्मता दृड्महतां समन्तादालोकदा लोकहिता च यस्य ।
 

तं संततं संतमसार्तलोकपालं कृपालंकृतमीशमीडे ॥ २ ॥ (युग्मम्)
 
२६ स्तोत्रम्]
 
३२३
 
-
 

 
संतमसेनाज्ञानरूपेणार्ता ये लोकास्तान्पालयतीति तम् । तथा कृपया दीनदयालुत-

यालंकृतं तमीशं परमेश्वरं संततमीडे स्तौमीति संबन्धः । तं कमित्याह — इन्तेत्यादि ।

हन्त हर्षे । यस्य परमेश्वरस्याक्षयस्य निर्विनाशस्यानादेश्चाक्षणिकः परमदृढः सनातनः

प्रसादोऽनुग्रह आपदुपद्रवाणां जन्मजरामृतिरूपाणां तदन्तर्गत प्रियवियोगादिदुःखाना-

मपहन्ता भवति । तथा यस्य च विभो रसना जिह्वा समन्ताद्व्यापी य आध्यात्मिका-

धिदैविकाधिभौतिक भेदेन त्रिविधस्तापः खेदस्तेन यः संतापः संतपनं तं हरतीति सं-

तापसंतापहरा । तथा [^१]कान्तारकान्ता कान्तो रम्यो योऽरोऽनंग्रं तत्र कं जलमौचित्या-

दमृतवारि तदन्ते यस्याः सा कान्तारकान्ता । केव । प्रपा पानीयशालिकेव । साप्य-

तिशयेन संतापः संतापसंतापस्तं हरति तादृशी भवति । यद्वा संतापो विद्यते येषां ते

संतापाः । मत्वर्थीय अः । तेषां संतापं हरतीति तादृशी भवति । तथा कान्तारे निर्जले

मरुप्रदेशे कान्ता मनोज्ञा । अत्र च 'से[^२]सत्तापसत्तापहरा' इति केचित्पाठमुचुः । तत्पाठे

च 'सतां तापः सत्तापस्तस्य सत्ता अस्तित्वं तामपहरतीति रसनापक्षे । प्रपापि समी-

चीनस्य तापस्य सत्तापहरा भवति' इति व्याचख्युः । अत्र च सहृदया एव प्रमाणम् ।

पुनश्चाभीष्टदं कमित्याह - तादृगित्यादि । समन्तात्परितो महतामुत्तमानामालोकदा प्र
-
काशदा महतां मताभिप्रेता लोकेषु हितानुकूला च यस्य तादृक् दृग्दृष्टिर्भवति ॥ युग्मम् ॥

हृद्येत्यादिद्वादशभिः कुलकम् -
 

 
हृद्यः सुहृद्यः सुकृतोर्जितानामन्यूनमन्यूनपि यः पृणाति ।

योऽनामयो नामगृहीतिमात्रादस्तापदस्तापमपाकरोति ॥ ३ ॥
 

 
परमे पदे परतत्त्वे परमात्मस्वरूपे नियोक्ता उपदेष्टा स देवः परमेशो वः काममभि-

लाषं सफलीकरोतु । कामं निश्चये । इति कुलकान्तिमश्लोकेन संबन्धः । स क इ-

त्याह – हृद्य इत्यादि । यो देवः सुकृतोर्जितानां पुण्यप्रदीप्तानां हृद्यो हृदयप्रियः सुहृ-

द्भवति । तथा न न्यूनो मन्युः क्रोधो येषां ते अन्यूनमन्यवस्तानपि अनल्पक्रोधानपि

यः पृणाति पूरयति स कामान्करोति । स्वातन्त्र्येणेत्यर्थः । तथा यः प्रभुरनामयः अवि-

द्यमाना आमयाः षट् शीताद्या यस्य स तादृक् । ग्रहणं गृहीतिः । स्त्रियां भावे क्तिः ।

 
[^
]. कान्तार इक्षुभेदस्तद्वत्कान्ता मधुरा
[^
]. समीचीनोऽयं पाठः.
 

 
Digitized by Google