This page has been fully proofread once and needs a second look.

३२२
 
काव्यमाला ।
 
रस्ता दूरीकृता विपद्यया सा तादृश्या निरस्तविपदा । <flag></flag>प्रणयकोपे निपातः । तया क
-
रुणया किं न भजसे । कृपापात्रं मां किं न कुरुष इत्यर्थः ॥
 
तव ह

 
तव दृ
ग्जयत्यलसतां लसतां मदनस्य या व्यतनुतातनुताम् ।
 

कुशलाय सा किल सतां लसतां निबिडं शमप्यतनुता तनुताम् ॥२५॥
 

 
हे विभो, या तव दृक् तृतीया दृष्टिर्मदनस्य कामस्यातनुतामनङ्गत्त्वं व्यतनुताकरोत्

सा तव दृक् लसतां क्रीडतां भक्तिप्रहृह्वजनानामलसतां भवच्चरणाम्बुजोपासायामालस्यं

जयति दूरीकुरुते । किल निश्चये । सा तव दृक् सतां सज्जनानां कुशलाय लसतामुल्ल

सतु । तथा सा दृक् निबिडं दृढं शमपि कल्याणमपि तनुतां विस्तारयतु । किंभूता दृक् ।

अतनुता अविद्यमाना तनुताल्पत्वं यस्याः सा । अत्र च कुशलाय शमित्यत्र पौनरु-

क्त्येsपि भक्तिविषये यमकादावदोषः ॥
 

अथेदानीमेतस्य स्तोत्रस्योपसंहारं श्लोकद्वयेनाइ-

 
यया भजन्ते भुवि मानवा हितां विभूतिमन्ते च विमानवाहिताम् ।

यमं च याधाद्दलशो भयानकं तया दृशा पास्युरुशोभया न कम् ॥२६॥
 

 
हे विभो यया तव दृशा अनुग्रहदृष्ट्या हितामनुकूलां विभूतिं संपदं भुवि 'इइ' लोके

मानवा मनुष्या धन्या भजन्ते लभन्ते । तथान्ते निर्वाणसमये च विमानवाहितां विमा-

नानि देवयानानि तैर्वाश्ह्यन्ते विमानवाहिनो देवास्तेषां भावस्तत्ता तां भजन्ते । तथा

या तव दृक् भयानकं सकलजगद्भयंकरं यमं कालं च दलशः खण्डशोऽधादकरोत् ।

अधादित्यनेकार्थत्वाद्धातूनामाङ्पूर्वो धाञ् विधानार्थः । तया उरुशोभया उत्कृष्टा शो-

भा यस्यास्तया दृशा कं न पासि । अपि तु सर्वमित्यर्थः ॥
 

 
परमया रमया रहितस्य मे न रुचिरं रुचिरङ्गमिमं व्यधात् ।
 

हर मयारमयाचि भवानतः कुरु चिरं रुचिरञ्जनमेहि मे ॥ २७ ॥
 

 
परमया उत्कृष्टया रमया लक्ष्म्या रहितस्य मे मम रुचिर्मनोरथोऽङ्गं देहं रुचिरं शो-

भनं न व्यधात् नाकरोत् । हे हर कालाग्निरुद्ररूपेण महाप्रलये सकलजगत्संहारक,

अतः पूर्वोक्तकारणाद्भवान्दीनदयालुर्मया अरमत्यर्थे अयाचि प्रार्थितः । 'टु याचृ याच्या-
ञा
याम्' धातुः । हे विभो, त्वं च रुचिरमभिप्रायमित्यर्थः ।...............त्वं च एत्ह्याग-

च्छेति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जली
लौ
रुचिरञ्जनाख्यं स्तोत्रं पञ्चविंशम् ।
 
Digitized by Google