This page has not been fully proofread.

३२२
 
काव्यमाला ।
 
रस्ता दूरीकृता विपद्यया सा तादृश्या निरस्तविपदा । उ प्रणयकोपे निपातः । तया क
रुणया किं न भजसे । कृपापात्रं मां किं न कुरुष इत्यर्थः ॥
 
तव हग्जयत्यलसतां लसतां मदनस्य या व्यतनुतातनुताम् ।
 
कुशलाय सा किल सतां लसतां निबिडं शमप्यतनुता तनुताम् ॥२५॥
 
हे विभो, या तव दृक् तृतीया दृष्टिर्मदनस्य कामस्यातनुतामनङ्गत्त्वं व्यतनुताकरोत्
सा तव दृक् लसतां क्रीडतां भक्तिप्रहृजनानामलसतां भवच्चरणाम्बुजोपासायामालस्यं
जयति दूरीकुरुते । किल निश्चये । सा तव दृक् सतां सजनानां कुशलाय लसतामुल्ल
सतु । तथा सा दृक् निबिडं दृढं शमपि कल्याणमपि तनुतां विस्तारयतु । किंभूता दृक् ।
अतनुता अविद्यमाना तनुताल्पत्वं यस्याः सा । अत्र च कुशलाय शमित्यत्र पौनरु-
क्त्येsपि भक्तिविषये यमकादावदोषः ॥
 
अथेदानीमेतस्य स्तोत्रस्योपसंहारं श्लोकद्वयेनाइ-
यया भजन्ते भुवि मानवा हितां विभूतिमन्ते च विमानवाहिताम् ।
यमं च याधाद्दलशो भयानकं तया दृशा पास्युरुशोभया न कम् ॥२६॥
 
हे विभो यया तव दृशा अनुग्रहदृष्टया हितामनुकूलां विभूतिं संपदं भुवि 'इइ' लोके
मानवा मनुष्या धन्या भजन्ते लभन्ते । तथान्ते निर्वाणसमये च विमानवाहितां विमा-
नानि देवयानानि तैर्वाश्यन्ते विमानवाहिनो देवास्तेषां भावस्तत्ता तां भजन्ते । तथा
या तव दृक् भयानकं सकलजगद्भयंकरं यमं कालं च दलशः खण्डशोऽधादकरोत् ।
अधादित्यनेकार्थत्वाद्धातूनामाङ्पूर्वो धाञ् विधानार्थः । तया उरुशोभया उत्कृष्टा शो-
भा यस्यास्तया दृशा कं न पासि । अपि तु सर्वमित्यर्थः ॥
 
परमया रमया रहितस्य मे न रुचिरं रुचिरङ्गमिमं व्यधात् ।
 
हर मयारमयाचि भवानतः कुरु चिरं रुचिरञ्जनमेहि मे ॥ २७ ॥
 
परमया उत्कृष्टया रमया लक्ष्म्या रहितस्य मे मम रुचिर्मनोरथोऽङ्गं देहं रुचिरं शो-
भनं न व्यधात् नाकरोत् । हे हर कालाग्निरुद्ररूपेण महाप्रलये सकलजगत्संहारक,
अतः पूर्वोक्तकारणाद्भवान्दीनदयालुर्मया अरमत्यर्थे अयाचि प्रार्थितः । 'टु याच याच्या-
याम्' धातुः । हे विभो, त्वं च रुचिरमभिप्रायमित्यर्थः ।...............त्वं च एत्याग-
च्छेति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जली
रुचिरञ्जनाख्यं स्तोत्रं पञ्चविंशम् ।
 
Digitized by Google