This page has been fully proofread once and needs a second look.

स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३२१
 
हे शिव कैवल्यप्रद,
 
विधुना चन्द्रमसा रोचिता शोभिता तया स्रजा मालया यथा

तव शिरसि पदं स्थानं क्रियते तथैव विधुरे संकटे उचिता तादृश्या विधुरोचितया मं-
द्वि

द्गि
रा मम वाण्यापि ते तवात्र हृदि तया धिया अनुप्ग्रहबुद्ध्या सह पदं स्थानं क्रियताम् ।

तया धिया कयेत्याह- —-या धीरनवधि अवधिरहितं कृत्वा विपदं कालकर्णी भक्तजनस्य
 

न सहते ॥
 
२५
 

 
विभुमाश्रये विगलदङ्गलतः प्रमये बिभेमि यदमङ्गलतः ।
 

स विमुच्य पाशमशमं गलतः कुरुते हि मे भयशमं गलतः ॥ २१ ॥

 
यद्यस्मात्कारणात्प्रमये मरणसमये विगलन्ती पतन्ती अङ्गलता यस्य स विगलदङ्ग-

लतः सन् अमङ्गलतः अमङ्गला दन्तकभ्रूभङ्गरूपाद्विबिभोम तद्विभुं परमशिवमाश्रये । शर

णार्थमिति शेषः । स एव विभुरशमं न विद्यमानः शमः शान्तिर्यस्य स तादृशं पाशं फ

णिपाशं गलतः कण्ठाद्विमुच्य हि यस्मात्कारणाद्गलतो भयेन पततः क्षीणस्य वा मे भ
-
यशमं महाभयशान्तितिं कुरुते करिष्यति ॥
 

 
चरणौ यथा मुरजितः क्षमयाधिगतौ भरं धरितुमक्षमया ।
 

नमतां तवैव कृतरक्ष मया भवतो धिया समुचितक्षमया ॥ २२ ॥
 

 
हे विभो, भरं भारं धरितुमक्षमया अशक्तया क्षमया धरित्र्या यथा मुरजितो विष्णो-

श्चरणौ भूभारोद्धरणायावतरिष्यतोऽघिगतौ प्राप्तौ । हे नमतां जनानां कृतरक्ष शंभो त
-
थैव मया भवतश्चरणावधिगतौ । कया। धिया बुद्ध्या किंभूतया । समुचितक्षमया समु

चिता उपपन्ना क्षमा यस्यास्तया ॥
 

 
तिमिरं रवेरिव विभामुदितां दृशमाप्य ते जहति यां मुदिताम् ।
भगवन्त्

भगवन्
रसाद्गिरमिमामुदितामुपकर्णयन्मयि दिशामुदि ताम् ॥ २३ ॥
 

 
हे भगवन् परमेश, रवेः सूर्यादुदितां विभां दीप्तिमिव मुदितां प्रसन्नां यां ते तव दृशं

दृष्टिमाप्य प्रह्वजनास्तिमिरमज्ञानरूपं तमो जहति त्यजन्ति रसाद्भक्तिरसादुदितामुत्पन्ना-

मिमां मे गिरं वाणीमुपकर्णयन् शृण्वन् अमुदि अविद्यमानमोदे मयि तां दृशं दिश

देहि । अविद्यमाना मुत्प्रहर्षो यस्य सोऽमुत् तस्मिन्नमुदि ॥
 

 
करुणा सुरैः प्रतिपदानतया भवतः स्तुता सदपदानतया ।
 

किमु मां भियाप्तमपदानतया भजसे निरस्तविपदा नतया ॥ २४ ॥
 

 
हे सुरैर्ब्रह्मविष्ण्वादिभिः प्रतिपदानत प्रतिपदं प्रतिक्षणमा समन्तात् नतः प्रणतस्तस्य

संबोधनं प्रतिपदानत । सदपदानंतया सन्ति अपदानानि त्रिपुरदाहान्धकवधादीनि यस्य

स सदपदानस्तस्य भावस्तत्ता तया उपलक्षिता या भवतः करुणा जनेन स्तुता भवति

अपदेऽस्थानेऽसमये वा आनता अपदानता तया भिया भीत्या आप्तं गोचरीकृतं मां नि
 
४१
 
Digitized by Google