This page has not been fully proofread.

स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
३२१
 
हे शिव कैवल्यप्रद,
 
विधुना चन्द्रमसा रोचिता शोभिता तया स्रजा मालया यथा
तव शिरसि पदं स्थानं क्रियते तथैव विधुरे संकटे उचिता तादृश्या विधुरोचितया मं-
द्विरा मम वाण्यापि ते तवात्र हृदि तया धिया अनुप्रहबुद्धया सह पदं स्थानं क्रियताम् ।
तया धिया कयेत्याह- —-या धीरनवधि अवधिरहितं कृत्वा विपदं कालकर्णी भक्तजनस्य
 
न सहते ॥
 
२५
 
विभुमाश्रये विगलदङ्गलतः प्रमये बिभेमि यदमङ्गलतः ।
 
स विमुच्य पाशमशमं गलतः कुरुते हि मे भयशमं गलतः ॥ २१ ॥
यद्यस्मात्कारणात्प्रमये मरणसमये विगलन्ती पतन्ती अङ्गलता यस्य स विगलदङ्ग-
लतः सन् अमङ्गलतः अमङ्गला दन्तकभ्रूभङ्गरूपाद्विभोम तद्विभुं परमशिवमाश्रये । शर
णार्थमिति शेषः । स एव विभुरशमं न विद्यमानः शमः शान्तिर्यस्य स तादृशं पाशं फ
णिपाशं गलतः कण्ठाद्विमुच्य हि यस्मात्कारणाद्गलतो भयेन पततः क्षीणस्य वा मे भ
यशमं महाभयशान्ति कुरुते करिष्यति ॥
 
चरणौ यथा मुरजितः क्षमयाधिगतौ भरं धरितुमक्षमया ।
 
नमतां तवैव कृतरक्ष मया भवतो धिया समुचितक्षमया ॥ २२ ॥
 
हे विभो, भरं भारं धरितुमक्षमया अशक्तया क्षमया धरित्र्या यथा मुरजितो विष्णो-
श्चरणौ भूभारोद्धरणायावतरिष्यतोऽघिगतौ प्राप्तौ । हे नमतां जनानां कृतरक्ष शंभो त
थैव मया भवतश्चरणावधिगतौ । कया। धिया बुद्ध्या किंभूतया । समुचितक्षमया समु
चिता उपपन्ना क्षमा यस्यास्तया ॥
 
तिमिरं रवेरिव विभामुदितां दृशमाप्य ते जहति यां मुदिताम् ।
भगवन्त्रसाद्गिरमिमामुदितामुपकर्णयन्मयि दिशामुदि ताम् ॥ २३ ॥
 
हे भगवन् परमेश, रवेः सूर्यादुदितां विभां दीप्तिमिव मुदितां प्रसन्नां यां ते तव दृशं
दृष्टिमाप्य प्रहजनास्तिमिरमज्ञानरूपं तमो जहति त्यजन्ति रसाद्भक्तिरसादुदितामुत्पन्ना-
मिमां मे गिरं वाणीमुपकर्णयन् शृण्वन् अमुदि अविद्यमानमोदे मयि तां दृशं दिश
देहि । अविद्यमाना मुत्प्रहर्षो यस्य सोऽमुत् तस्मिन्नमुदि ॥
 
करुणा सुरैः प्रतिपदानतया भवतः स्तुता सदपदानतया ।
 
किमु मां भियाप्तमपदानतया भजसे निरस्तविपदा नतया ॥ २४ ॥
 
हे सुरैर्ब्रह्मविष्ण्वादिभिः प्रतिपदानत प्रतिपदं प्रतिक्षणमा समन्तात् नतः प्रणतस्तस्य
संबोधनं प्रतिपदानत । सदपदानंतया सन्ति अपदानानि त्रिपुरदाहान्धकवधादीनि यस्य
स सदपदानस्तस्य भावस्तत्ता तया उपलक्षिता या भवतः करुणा जनेन स्तुता भवति
अपदेऽस्थानेऽसमये वा आनता अपदानता तया भिया भीत्या आप्तं गोचरीकृतं मां नि
 
४१
 
Digitized by Google