This page has been fully proofread once and needs a second look.

३२०
 
काव्यमाला ।
 
हे विभो, निरर्गलास्तरङ्गरूपा लता यस्याः सा निरर्गलतरङ्गलता द्युसरिद्गङ्गा आकु-

लतरं व्यप्ग्रत्वेन गलता क्षीणवपुषा शशिना चन्द्रमसा यथाधिगता प्राप्ता तथैव मयापि

क्षतो नाशितोऽनवधिर्बहुलः कोपचयः कोपाधिक्यं यया सा तादृशी। तथा अधिक उ

पचयो वृद्धिर्यस्याः सा तादृशी च करुणा कृपा त्वत् भवत्सकाशादधिगता प्राप्ता ।

 
गरुडेन यद्विषमपक्षतिना कवलीकृतं विषमपक्षतिना ।
 

स तव प्रसादमहिमा न परः प्रभुरानतं प्रति हि मानपरः ॥ १६ ॥
 

 

 
हे विभो, विषमे उद्भटे पक्षती पक्षमूले यस्य स तादृशेन । तथा अपगता क्षतिर्बा-

धायस्य स तादृशेन च गरुडेन तार्क्ष्येण विषं गरलमपि यत्कवलीकृतं प्ग्रस्तं स तवैव प्र-

सादमहिमा भवति । कुत इत्याह - हि यस्मात् परः प्रभुः स्वामी आनतं प्रहृह्वजनं प्रति

मानपर आदरपरो न भवति । त्रिजगति त्वमेव भक्तजनानां प्रत्यादरपरायण इत्यर्थः ॥
 

 
पदमाप्तुमार्तिशमनं गहनं प्रभुमर्थये भृशमनङ्गहनम् ।
 

वसनं यथार्तिहरणं स हि मे समये तथैव शरणं सहिमे ॥ १७ ॥
 

 
आर्तिर्जन्मजरामरणत्रासरूपा तच्छमनं गहनं पदं परं धाम प्राप्तुमहमनङ्गहनं अनङ्गं

कामं हन्तीति अनङ्गहा कामदहनस्तं प्रभुं श्रीशिवं भृशमर्थये । हि यस्मात्कारणात् स

हिमे सह हिमेन प्रालेयेन वर्तते यः स सहिमस्तस्मिन्समये काले हेमन्तकाले यथा वसनं

वस्त्रं प्रावारप्रायमार्तिहरणं शीतार्तिहरणं तथा प्रभुः परमशिवो मे भवार्तौ शरणं भवति ॥

 
सुरसुन्दरीषु रमणीयतमा स्ववपुर्गुणेन रमणी यतमा ।
 

तव भक्तमक्षतरसाजर सा भजते समेत्य तरसा जरसा ॥ १८ ॥
 

 
हे अजर निर्नाश शंभो, सुरसुन्दरीष्वप्सरःसु मध्ये स्ववपुर्गुणेनातिशयेन रमणीया

रम्या यतमा एका या काचिद्रमणी वरस्त्री भवति सा न क्षतो नष्टो रसः प्रेमरसो यस्याः

सा अक्षतरसा सती जरसा वार्धक्येनोपलक्षितमपि तव भक्तं तरसा शीघ्रं समेत्य भ
-
जते सेवते ॥
 

 
त्वयि गीर्मया निजगदे बत या निखिलं जयामि जगदेव तया ।

मुदितस्य भक्तिसुधया भवतः सभयस्य किं वसुधया भवतः ॥ १९ ॥
 

 
हे स्वामिन्, बत हर्षे । मया वराकेण या गीः स्तुतिरूपा वाणी त्वयि विषये निज-

गदे उक्ता तयोक्तया निखिलं सकलमेव जगज्जयामि । यतो भवतः संसारात्सभयस्य

त्रस्तस्यापि भवतस्तव भक्तिसुधया भक्तिरसायनेन मुदितस्य प्राप्तपरमानन्दस्य वसुधया

धरित्र्यापि लब्धया किम् । न किंचिदित्यर्थः ॥
 

 
शिरसि स्रजेव विधुरोचितया हृदि मद्गिरात्र विधुरोचितया ।
 

क्रियतां पदं शिव धिया सह तेऽविपदं सदानवधि या सहते ॥ २० ॥
 
Digitized by Google