This page has not been fully proofread.

२५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
हे विभो, तव सेवनविधौ येन धन्येन तरसातिशयेन मतिर्बुद्धिरर्पिता
मतिः । अन्यभविषु अन्यजन्मिषु धौतः क्षालितो रसो यस्याः सा ।
 
३१९
 
किंभूता
 
..........
 
11
 
विषयान्प्रति प्रयतमानमदः सुजनो मनः प्रयतमानमदः ।
तव शासनेन वशमानयते शरणं ततो नवशमानयते ॥ ११ ॥
 
हे विभो, प्रयतौ शान्तौ मानश्च मदश्च तौ यस्य स तादृक् सुजनः सहृदयजनो विष-
यान् शब्दादीन्प्रति प्रयतमानं प्रयत्नं कुर्वाणं अदः एतत् मनश्चित्तं तव शासनेन भवदु-
क्तानुशासनेन वशमानयते विधेयं संपादयति । अतो हेतोरयं सुजनो नवशमान् नवो
नूतनः शमो येषां तान्साधून शरणमयते गच्छति ॥
 
रविजं रजोभिरिव मेचकितं हृदयं विभाव्य शिव मे चकितम् ।
वचनं जितामृतरसं भ्रमतः पथि संकटे वितर संभ्रमतः ॥ १२ ॥
 
हे विभो शिव, रजोभिर्धूलिभिर्मेचकितं मलिनीकृतमिव रविजं यमं विभाव्य वि-
चिन्त्य मे मम हृदयं मनश्चकितं त्रस्तं भवति । हे स्वामिन् संभ्रमतः संभ्रमेण संकटे
पथि भ्रमतो मम जितामृतरसं वचनं वितर देहि ॥
 
9
 
त्वयि चक्षुरीश कलितापकृति क्षिपति क्षणं शकलितापकृति ।
परशक्तिरिद्धवपुरङ्गमिता जनता यया तव पुरं गमिता ॥ १३ ॥
हे विभो ईश, कलेस्तुरीययुगस्य तापो दूरीकरणजः संतापस्तं करोतीति कलिताप-
कृति त्वयि शकलिता अपकृतिर्जन्मजरामरणजा देहिनां येन तच्चक्षुः क्षणं क्षणमात्रं
क्षिपति सति इद्धं दीप्तिमद्वपुर्यस्यां सा इद्धवपुः परा उत्कृष्टा शक्तिः परशक्तिरङ्गं देह-
मिता प्राप्ता । सा परशक्तिः का। यया जनता जनानां समूहस्तव पुरं शिवभवनं गमिता
प्रापिता । त्वच्छक्तिपातानुगृहीतस्य धन्यस्य शिवपुरे गतिर्भविष्यतीत्यर्थः ॥
 
रविजस्य वर्ष्म सहसा रचितं भवताग्निसादसहसारचितम् ।
 
वपुराप ते मदनघस्मरतां न तथापि भीमदनघ स्मरताम् ॥ १४ ॥
 
-
 
हे विभो, न हसते असहो यः सारो बलं तेन चितं व्याप्तं रविजस्य यमस्य वर्ष्म देहः
सहसा शीघ्रमेवाग्निसाद्रचितम् । अग्निः संपद्यतेऽग्निसात् । 'विभाषा सातिकात्स्यें' इति
सातिप्रत्ययः । हेऽनघ । अविद्यमानमधं मायावरणं यस्य तस्य संबोधनम् । ते तव वपु-
मदनस्य कामस्य घस्मरं भक्षकं दाहकं तद्भावं मदनघस्मरतामाप प्राप तथापि स्मरतां
भक्तजनानां ते तव वपुर्भीमत् भीर्भयं विद्यते यस्मात्तन्न भवति । परमानन्दप्रदमेवेत्यर्थः॥
करुणा क्षतानवधिकोपचयाधिगता मया त्वदधिकोपचया ।
शशिना यथाकुलतरं गलता धुसरिन्निरर्गलतरङ्गलता ॥ १५ ॥
 
Digitized by Google